पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
विक्रमोर्वशीये

(इति निष्क्रान्तः।)

प्रस्तावना।

ततः प्रविशन्त्यप्सरसः ।

 अप्सरस: -अजा परित्ताअध परित्ताअध । जो सुरपक्खपादि जस्स अम्वरअले गईअस्थि । [आर्याः ! परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्याम्बरतले गतिरस्ति ।]

(ततः प्रविशति अपटीक्षेपेण राजा रथेन सूतश्च ।)

 राजा- अलमाक्रन्दितेन । सूर्योपस्थाननिवृत्तं पुरूरवसं मामेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति ।


  इति निष्क्रान्तः रङ्गभूमितोऽपक्रान्तः ।

 प्रस्तावना तल्लक्षणं तु "नटी विदूषको वापि पारिपार्श्वक एव च । सूत्रधारेणसहिताः संल्लापं यत्र कुर्वते ॥ चित्रैः वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा"-यत्र सूत्रधारेण सह पात्राणां संल्लापेन प्रस्तुतविषयः समाक्षिप्यते सा प्रस्तावना इति दर्पणकारः । अत्र च एकस्मिन् प्रयोगस्याक्षेपाद् “नेपथ्ये-अज्जा परित्ताअध” इत्यारभ्य "क्रन्दत्यतः करुणमप्सरसां गणोऽयं" इतिपर्यन्तेन अप्सरसां प्रवेशात् प्रयोगातिशयः यदुक्तं च-"यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रप्रवेशः स्यात्प्रयोगातिशयस्तदा ।" इति विश्वनाथः।

 इत्थमामुखं समाप्य प्रारभ्यते प्रधानवस्तुवर्णनम् ।

"इति प्रस्तावना"

तत-इति अप्सरसः रङ्गभूमिं प्रविशन्ति ।
अप्सरसः-अज्जा इति-पूर्वं व्याख्यातम् ।

 तत इति - राजा रथमारुह्य ससूतः अपटीक्षेपेण जवनिकापातानन्तरं प्रविशति रङ्गस्थल्यां समायाति।

 यदा कश्चन पात्रः प्रविशति तदा क्वचित् पूर्वं जवनिकापातः क्रियते तदनन्तरं च तस्य प्रवेशः। अपटी जवनिका । यदुक्तम् -"अपटी काण्डपटः स्यात् प्रतिसीरा जवनिका तिरस्करणी" इति हलायुधः । केचन न पटीक्षेपः अपटीक्षेपः इति विग्रहं कुर्वन्ति मन्यन्ते च यत् जवनिकायाः अधःपातं विनैव प्रवेशः इति । किन्तु अत्र पुरूरवसः प्रथमप्रवेशादसूचितत्वाच्च प्रवेशपूर्वं जवनिकापातस्तु युक्त एव ।

 अलमिति- आर्तनादेन पर्याप्तम् । अत्र वारणार्थे तृतीया-आर्तनादं मा कुरुतेत्यर्थः । सूर्यस्य भगवतः उपस्थानं सेवा तस्मात् निवृत्तं प्रत्यागच्छन्तं