(विचिन्त्य,) भवतु । ज्ञातम् ।
ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री |
श्रुतिसाम्यात् सन्देहमूलकं परिकल्पनमस्ति । अत्र च ससन्देहालङ्कार - "ससन्देहस्तु भेदोक्तौ” इति काव्यप्रकाशकृतः । अथवा "सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः" इति विश्वनाथकविवराः । अत्र किमिदं गानं, अथत्र, कोकिलस्वरः, षट्पदगुञ्जनं वा इति सन्देहात् ससन्देहालङ्कारः । अनेन ससन्देहालङ्कारेण पीडितानामप्यप्सरसामार्तनादः पिकस्वर इव अथवा गानमिव नितान्तं कलमधुराक्षरं मदनोत्पादकमभवत् इति अप्सरसां कलकण्ठीत्वं मनोहारित्वं च वस्तु ध्वन्यते। यद्वा पिक इव तासां रवः आसीदिति उपमालङ्कारः ससन्देहालङ्करणाद् व्यज्यते ।
प्रहर्षिणीवृत्तम् । तल्लक्षणं तु-"प्रहर्षिणी म्नौ ज्रौग् त्रिकदशकौ"- यस्य पादे मकारनकारजकाररेफगकारा भवन्ति तद्वृत्तं प्रहर्षिणी नाम- यत्र च त्रिभिर्दशभिश्च यतिः । इति पिङ्गलछन्दःसूत्रे ॥ ३ ॥
विचिन्त्येति-किमेतदिति विचार्य कथयति । |
ऊरूद्भवेति- नरसखस्य नरनारायणयोर्नरावतारस्य अर्जुनस्य सखा मित्रं नारायणस्तस्य मुनेः नारायणाख्यमुनेः ऊरूद्भवा ऊरोदेशतः समुत्पन्ना सुरस्त्री उर्वशीनामधेया देवाङ्गना कैलासनाथं शम्भुननुसृत्य सेवित्वा निवर्तमाना गृहं प्रत्यागच्छन्ती विबुधानां सुराणां शत्रुभिः दैत्यैरर्धमार्गे मार्गान्तराले एव बन्दीकृता हठान्निगृहीता । अतः अप्सरसां अयं गणः करुणं यथा स्यात्तथा क्रन्दति रोदिति ।
अप्सरस्सु श्रेष्ठा साक्षाद्विष्णोरूरुतः समुत्पन्ना दिव्यस्त्रीरत्नं उर्वशी दानवैरपहृता। अत एव अप्सरोभिराकाशे परमकरुणतया रुद्यते- इति भावः ।
इयमुर्वशी नारायणस्योरुदेशतः समुद्भूतेति पौराणिकी श्रुतिः । कैलासनाथमनुसृत्येति “कर्मप्रवचनीययुक्ते द्वितीयेति" (२॥३॥८) द्वितीया । बन्दीकृता इति च्विः । विबुधा देवाः “अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः" इत्यमरः। मार्गस्यार्धमिति अर्धमार्गः इत्यत्र पिप्पल्या अर्धमिति अर्धपिप्पली-तद्वत् समासः।
अत्र च भयानकाख्यो रसः-भयः स्थायी क्रन्दनकम्पादिकमनुभावः, संत्रासादयो व्यभिचारिणः।
श्लोकोऽयं वसन्ततिलकावृत्तेन निबद्धः । उक्तं हि “उक्ता वसन्ततिलका तमजा जगौ गः" इति वृत्तरत्नाकरे । यस्मिन् वृत्ते तगणभगणजगणजगणाः गकारौ च भवन्ति तद्वत् वसन्ततिलकाख्यमिति ॥ ४ ॥