पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विक्रमोर्वशीये

 सूत्रधारः- (कर्ण दत्त्वा।) अये ! किं नु खलु मद्विज्ञापनान्तरमार्तानां कुररीणामिवाकाशे शब्दः

  मत्तानां कुसुमरसेन षट्पदानां
   शब्दोऽयं परभृतनाद एष धीरः।
  आकाशे सुरगणसेविते समन्तात्
   किं नार्यः कलमधुराक्षरं प्रगीताः ॥ ३ ॥


 सूत्रधारः - कर्णं दत्त्वा-सावहितं निशम्येत्यर्थः । अयेति सम्बोधनमाश्चर्यसूचकम् । मद्विज्ञापनानन्तरं सभ्येभ्यः मदीयप्रार्थनान्तरमेव आर्तानां पीडितानां कुररीणां अबलानां पतत्रिणां स्वर इव यस्य कस्यापि पीडितस्य आर्तनादः आकाशे श्रूयते- इति विस्मयः । कुररी तु उत्क्रोशापरनामा पक्षिविशेषः "उत्क्रोशकुररौ समौ" इत्यमरः । कुररीणामिवेति-उपमालंकारः । यदुक्तं कुवलयानन्दे-"उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः" अत्र कुररीणां च तासामप्सरसां सादृश्यम् । आर्तनादे च साधर्म्यम् यतः “साधर्म्यमुपमामेदे” इति मम्मटाचार्याः । अनेनोपमालङ्कारेणाप्सरसां कुररीसदृशमबलत्वम् , स्वरतीक्ष्णतामाधुर्यादिकं वस्तु व्यज्यते-इति वस्तुव्यङ्ग्यम् ।

 मत्तानासिति - कुसुमरसेन पुष्पाणां मकरन्देन मत्तानां मदोन्मत्तानां षट्पदानां भ्रमराणां शब्दोऽयं गुञ्जारवोऽयं किम् ? अथवा आकाशे श्रूयमाणोऽयं निनादः किम् परभृतानां कोकिलानां धीरः स्वरः एव ? अथवा सुराणां देवानां गणैः वृन्दैः सेविते समेते आकाशे समन्तात् सर्वतः नार्यः देवाङ्गनाः किन्नर्यो वा कलानि मनोहारीणि मधुराणि च अक्षराणि यस्मिन् यथा स्यात्तथा प्रगीता गातुमुपक्रान्ताः किमु ? इति सन्देहः ।

  भ्रमराणां गुञ्जनमिदं, उत कोकिलानां स्वरोऽयमथवा किन्नरीणामेव मधुरं गानमिदमाकाशे श्रूयते- इति सन्देहः । षद पादा येषां ते षट्पदाः भ्रमराः "द्विरेफपुष्पलिङ्भृङ्गषट्पदभ्रमरालयः" इत्यमरः। परैः काकादिभिः नियते पोष्यते यः सः परभृतः कोकिलः । “वनप्रियः परभृतः कोकिलः" इत्यमरः । कलानि अव्यक्तानि अक्षराणि अस्मिन् , अथवा कं द्युतिं लान्तीति तानि-अनुप्रासादिभिः शोभमानानि । यद्वा कं शुद्धार्थं लान्तीति प्रसिद्धार्थपदयुक्तानि । अथवा कं स्मरं लान्तीति श्रवणमात्रेण मदनोद्भावीनि अक्षराणि इति कलपदस्यानेकार्थकत्वम् । यतः “को ब्रह्मानिलसूर्याग्निचित्रारियमकेतुषु । विष्णुवाहनशर्वेऽब्धौ सितकणे बसौ श्रुतौ । स्वर्गे चक्रे तथा मित्रे शुद्धेऽर्थे स्मरकालयोः ॥" इति । प्रगीता गातुमुपक्रान्ता इति कर्तरि क्तप्रत्ययः।

  अत्र च एकस्वरावयवलक्षणस्य शब्दस्य साम्यात् त्रिगतं नाम वीथ्यङ्गम् । यदुकं धनञ्जयेन -"श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं मतम् ।" तथा च दर्पणेऽपि "त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः" यतः षट्पदपदपिकादीनामेकस्मिन्नेव शब्दे