पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः ।

(नेपथ्ये)

अज्जा, परित्ताअध आस्य मुअथ । जो सुरपक्खवादी, जस्स वा अम्बरअले गईअत्थि । [आर्याः परित्रायध्वम् परित्रायध्वम् । यः सुरपक्षपाती यस्य वाऽम्वरतले गतिरस्ति ].


 प्रीतिपात्राणि यानि नाटकीयपात्राणि तेषामिच्छानुसारं वर्तनेन, अथवा प्रतिपाद्ये वस्तुनि च नायकस्यैतिवृत्ते चोत्कण्ठया सन्मानेन वा यूयं सर्वे सामाजिकाः सावधानतया कालिदासकृतां पुरोऽभिनीयमानां कृतिं प्रेक्षध्वमिति तात्पर्यम् । इत्यहं सादरं निवेदयामि ।

 प्रणयः - णीञ् धातोः “एरच्" (३१३:१) तेन प्रणयः प्रणय अस्यामस्तीति प्रणयिन्-इनिः । "प्रणयः प्रसरे प्रेम्णि" इति मेदिनी । “अयं मम अहमस्येत्याकारकः पक्षपातविशेषः प्रेम, तथा च तदेव प्रेमावलोकनादिना प्रकर्षनीतं अपराधसहस्रेणापि अविचालितं प्रणयः" इति काव्यप्रकाशटीकाकृतः । दाक्षिण्यं हि नाम परच्छन्दानुवर्तित्वम्-परस्येच्छानुसरणमेव दाक्षिण्यम् । सावधाना भवन्तु भवन्त इति प्रार्थयते सूत्रधारः सामाजिकान् । इयं चार्या जातिः । तल्लक्षणं यथा श्रुतबोधे–“यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थक पञ्चदश सार्या" ॥२॥

 नेपथ्य इति - वक्ष्यमाणेयमुक्तिर्चवनिकान्तरितात् वैपग्रहणस्थलादुच्यते ।

आर्याः सज्जनाः ! परित्रायध्वम् परित्रायध्वम् रक्षत रक्षत ।

 ये केचन सुरपक्षपातिनः देवताभिवाञ्छितं सम्पादयितुं कामयमानास्ते रक्षां कुर्वन्तु । येषां च अम्बरतले आकाशमार्गे गतिरस्ति । अस्माकमुपरि आक्रमणं आकाशे क्रियते वयं च सुरेन्द्रानुचराः, अतः ये केचन जनाः देवेन्द्रमुपकर्तुं अभिवाञ्छन्ति ये च गगनेऽपि अप्रतिहतगतयः सन्ति ते अस्माकं साहाय्यं कुर्वन्तु इत्यर्थः।

 क्वचिद् क्वचिद् गाथासु लिङ्गवचनविपर्यासः क्षम्यः । यथेह “यः सुरपक्षपाती"ति विशेषणम् सम्बोध्यमानानां आर्याणां वर्तते, अतः विशेष्यानुसारं विशेषणस्यापि बहुवचनत्वं प्रशस्यम् किन्तु इह प्राकृते क्वचन लिङ्गवचनविलोमता क्षम्यते "प्राकृते लिङ्गवचनमतन्त्रं पूर्वनिपातनियमश्चेति"वचनात् ।

  अवधेयमिदमत्र यदभिधेयं वस्तु व्यक्तीक्रियते । यतः "अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः' इति वचनानुकूलं प्रकृते नेपथ्ये यद्यदस्ति प्रोक्तं, तत्तत्सर्वं चूलिका "अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचनम्' इति लक्षणात् । यतः नेपथ्य इत्यारभ्य-'अम्बरअले गईअत्थि' पर्यन्तं सर्व महादेवस्य वरिवस्यां विधाय प्रत्यागच्छन्त्याः चित्रलेखाद्वितीयायाः उर्वश्याः दानवापहरणं सूचयति ।