पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः ।

(नेपथ्याभिमुखमवलोक्य,)

मारिष ! इतस्तावत् ।

 मारिष ! पारिपार्श्वकः - भाव ! अयमस्मि ।

 सूत्रधारः- मारिष ! परिषदेषा पूर्वेषां कवीनां दृष्टरसप्रवन्धा अहमस्यां कालिदासप्रथितवस्तुना नवेन त्रोटकेन उपस्थास्ये । तदुच्यतां पात्रवर्गः स्वेषु स्वेषु पाठेषु अवहितं भवितव्यमिति ॥


अतिविस्तरेणेति वारणार्थे तृतीया । विस्तरेणेति “प्रथने वावशब्दे (३/३/३३ पाणिनीये) इति शब्दप्रथने घञ्-निषेधस्तदभावे च अप्प्रत्ययः, तेन विस्तरः, अन्यत्र विस्तारः।

  नेपथ्येति - नेपथ्यं नाम रजस्थलस्य पश्चात् यवनिकान्तरितो वर्णग्रहणादि-योग्यकुशीलवकुटुम्बावस्थानदेशः । “कुशीलवकुटुम्बस्य स्थली नेपथ्य इष्यते" इति वचनात्रिपुरारेः । “नेपथ्यं स्याद्यवनिका रङ्गभूमिः प्रसाधनम्" इत्यजयः। नेपथ्याभिमुखं यवनिकासंमुखमवलोक्य दृष्ट्वा सूत्रधारो वदति । नेपथ्याभिमुखमवलोक्येति कविवाक्यम् ।

 मारिषेति - मा रेषति न हिनस्ति दुष्टाभिनयादिना सामाजिकानां शान्तिं मनोविनोदं चेति मारिषः । पारिपार्श्वको नटविशेषः । माशब्दोपपदात् रिष हिंसायाम् (भ्वा. प. से.) इति रिष्धातोः नाम्युपधत्वात् "इगुपध" (३।१।१३५) इति कः प्रत्ययः । नटः सूत्रधारेण मारिष इति वाच्यः "सूत्री नटेन भावेति तेनासौ मारिषेति च-" इति वचनात् । अथवा मर्षणात् सहनात् मारिषः “पृषोदरादिः" (६।३।१०९) "मारिषः शाकभिदि आर्ये, नाट्योक्त्या पुंसि योषिति" इति दक्षाम्बायाम् । इत अस्मिन् स्थाने इति सप्तम्यां सार्वविभक्तिकस्तसिल । तावत्तु वाक्यालंकारे । आगम्यतामिति शेषः ॥ प्रविश्य रङ्गभूमिमेत्येति ।

 पारिपार्श्वकः-परि पार्श्व यथा भवति तथैव वर्तते इति पारिपार्श्वकः सूत्रधारादीषन्न्यूनको नटः । “सूत्रधारस्य पार्श्वे यः प्रवदन् कुरुतेऽर्थनाम् । काव्यार्थसूचनालापं स भवेत् पारिपार्श्वकः ।" भाव इति सूत्रधारस्य बहुमानकमिदं संबोधनम् । सूत्रधारं वदेद् भावः इति वै पारिपार्श्वकः । अयमस्मीति अयमहं भवदाज्ञां अनुपालयितुमुपस्थितोऽस्मीति भावः ।

 सूत्रधारः- मारिषेति-एषा परिषद् विदुषां सभा पूर्वेषां प्राचीनानां कवीनां दृष्टा अवलोकिता रसमयाः प्रबन्धाः काव्यानि यया सा एतादृशी वर्तते। अनया सभया प्राक्तनानाम् कवीनां रसपरिपूर्तानि काव्यान्यवलोकितानीत्यर्थः । रसप्रबन्धः इत्यत्र रसमयाः प्रबन्धाः इति मध्यमपदलोपी समासः । अहमिदानीमस्यां परिषदि कालिदासेन कविना ग्रथितं निबद्धं वस्तु इतिवृत्तं यस्मिन् तेन