पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/484

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fa (r\ पाराशष्टम्। e. विक्रमाङ्कदेवचरितमहाकाव्यस्य सप्तसगन्तिर्गताः सूक्तयः । प्रथमसर्गे श्लोकाः अनभ्रुवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ।। & ॥ साहित्यपाथोनिधिमन्थनोत्थं कणमृतं रक्षत हे कवीन्द्राः । यदस्यदैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥११॥ गृह्णन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमत्यैरद्यापि रत्नाकर एव सिन्धुः ॥१२॥ कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनाद्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥ व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रष्करी शलाका प्रगल्भते कर्मणि टङ्किायाः ॥१६॥