पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/483

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः अथ बन्दिनः। इति विरहविधुरकामिनीसृहस्रप्रहितमनोभवलेखसूति। मिश्रैः सुरभिसमयवर्णनैः नृपतेः प्रमोदम् अकुर्वन् । व्याख्या अथाऽनन्तरं बन्दिनः स्तुतिपाठका इति पूर्वोक्तप्रकारेण विरहेण कान्तवियोगेन तज्जनितक्लेशेनेत्यर्थः । विधुरा विह्वलाः कामिन्यस्तासां सहस्रं तेन प्रहिताः प्रेषिता मनोभवलेखाः कामसम्बन्धिलिखितपत्राणि तेषु सूक्तयस्सुभाषितानि ताभिर्मिश्राणि मिलितानि तैः सुरभिसमयस्य वसन्ततः ‘वसन्ते पुष्पसमयस्सुरभिः' इत्यमरः ॥ वर्णनानि तैर्नृपते राज्ञो विक्रमाङ्कदेवस्य प्रमोदमानन्दं मनोविनोदमित्यर्थः । अकुर्वन् चक्रुः ॥ पुष्पिताग्रावृत्तम् । भाषा इस प्रकार स्तुतिपाठक लोगों ने, विरह से व्याकुल भई हुई हजारों कामिनिओं के द्वारा भेजे जाने वाले प्रेमपत्रों की सूक्तियों से मिश्रित, वसन्त ऋतु के वर्णनों से, राजा विक्रमाङ्कदेव को आनन्दित किया । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हण-विरचिते विक्रमाडूदेवचरिते महाकाव्ये सप्तमः सर्गः । नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्काले-Sत्र दामोदरात् भारद्वाजबुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः । चक्र रामकुबेरपण्डितवरात्सम्प्राक्षसाहाय्यकटीकायुग्ममिद रमाकरुणया सर्गों नवे ससमे ॥