पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/482

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

વાવણ વગામનારાણા વિજ્ઞાrા ત્રાભૂતમ્ ૩ન્યૂણાત ! व्याख्या चूतानामाम्राणां ‘अम्रश्चूतो रसालोऽसौ सहकारोतिसौरभः' इत्यमरः ॥ अाम्रपुष्पाणामित्यर्थः । अङकुराः कोमलाग्रभागा एव कन्दल्यः कन्दास्तासा कवलनाद्भक्षणात् कर्णयोः श्रोत्रयोरमृतानां पीयूषतुल्यवस्तूनां ग्रामणीः श्रेष्ठः *ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु' इत्यमरः ॥ यः पञ्चमस्वरः छायाभ्मात्रस्यांऽशमात्रस्य परिग्रहेऽपि ग्रहणेऽपि प्रतिध्वन्यांशमात्रकर्णगोचरीभूतेऽपि पञ्चेषुः कामस्तस्य जैत्रा जयनशीला इषवो बाणास्तेषां भावस्तां जगृहे स्वीचकार । चूतपुष्पं कामबाणः । अतोऽस्य कवलनात् कोकिलकामिन्याः शब्दस्य 'पञ्चमस्वरस्य कामजयनशीलबाणत्वं संजातमिति भावः । स ताम्यत् क्लिश्यत् तालु काकुदं ‘तालु तु काकुदम्' इत्यमरः । तस्य विटङ्कमूर्ध्वस्थानं तस्य सङ्कटा सङकुला या तटी प्रान्तभागस्तस्यां संचारतो गमनादयं प्रसिद्धः पञ्चमः 'पञ्चमस्वरः कोकिलानां पिकानां कामिन्यः कान्तास्तासां गलविलात् कण्ठरंध्रावामूलं कण्ठरन्ध्रमूलतः प्रारभ्योन्मूलति निर्गच्छति बहिनिस्सरतीत्यर्थः ॥ पञ्चमस्वरध्वनिस्तालुनलिकासंचारादेव भवतीति स्वरविद्याकुशलानां गायकानामेबाऽनुभवगम्यम् । कोकीलाश्चञ्चुमुपरिकृत्वेव कूजन्तीति गलरन्ध्रमूलात्तस्य पञ्चमस्वरस्योत्पत्तिरिति कवेराशयः ॥ शादूर्लविक्रीडितच्छन्दः ॥ भाषा जो आम के (फूलों के) अडाकुर की गाँठ को खाने से कान को सुख देनेवालों में श्रेष्ठ है, जिसकी भनकमात्र कान में पड़ने से जो कामदेव के जयनशील बाणों का काम करता है, ऐसा यह प्रसिद्ध पञ्चमस्वर, दबाई हुई तालू के उच्चभाग में की सकड़ी गली में से होकर निकलने वाला होने से कोकिलाओं के गले के छिद्र क जड में से नकल कर बाहर पड़ता है । अर्थात पञ्चमस्वर सदैव