पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/481

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या पौलस्त्यस्य राबणस्योद्यानमुपवनमशोकवाटिका तस्य लीलाविष्टपी क्रीडावृक्षोऽशोकतरुस्तस्य तलेऽधी मीलन्त्यी विघटन्त्यो चिरकालादस्पष्टीकृता इत्यर्थ: । मैथिल्याः सीतायाः पादमुद्राश्चरणचिह्नानि यैस्ते, कपूरद्वीपस्याऽन्तरीपविशेषस्य वेलाचलः समुद्रतटस्थपर्वतस्तस्य विपिनतटी वनतटी तस्याः पासवो धूलयस्तासु केली क्रीड़ा तस्या रसशा रसिका:, केरलीन केरलदेशजकामिनीनां क्रीड़ाभी रत्यादिक्रीडाभिस्ताम्बूलेन चूर्णन कर्पूरेण च ग्लपितानि खिन्नानि श्रान्तानीत्यर्थः । मुखान्याननानि तेषां हृता दूरीकृता क्लान्तिम्लीनता यैस्ते, स्मर एव काम एव सुभटो सुयोद्धा राजा तस्य जयस्य विजयस्याSSकाङक्षिण इच्छुका दक्षिणे भवा दाक्षिणात्याः समीरा वायवो वक्षिणानिला इत्यथंः ॥ अमोदन्ते अामोदं सुगन्धं हर्षं वा ‘अामोदः सोऽतिनिहरी' इत्यमरः । परितो विस्तारयन्ति ॥ स्रग्धराच्छन्दः ॥ भाषा रावण की बाग में विद्यमान, लीलावृक्ष अशोक के नीचे श्री सीता जी के चरणचिह्नों को अधमिटा करने वाले, कपूर द्वीप में समुद्र तट के पर्वत के प्रान्तभाग में विद्यमान जंगल की धूलि में खेलवाड़ करने के रसिक, केरलदेश की अङ्गनाओं के प्रत्यादिक्रीडाओं में पान और कपूर के खाने से श्रान्त अत एव खिन्न मुखों की ग्लानि को दूर करने वाले और वीर राजा कामदेव का विजय प्राप्त होने की अभिलाषा रखने वाले दक्षिणानिल, चारो ओर सुगन्ध या हर्ष फैला रहे हैं। og यथूताडुरकन्दलौकवलनात्कर्णामृतग्रामणी ` श्छायामात्रपरिग्रहेऽपि जगृहे पञ्चेषुजैत्रेपुताम् ।