पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/480

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KVr नूतने नवीने यौवने युवावस्थायां प्रणय: स्नेहो यस्य स तेन चैत्रेण वसन्तेन चित्रां विचित्रां विविधवर्णयुक्तां लिपिमक्षरविन्यासं शोभामित्यर्थ:। नीता प्रापिता का काननमही का क्रीडोद्यानभूमिः शुक्लत्वरक्तत्वनीलत्वात् कटाक्षेरिवाऽपाङ्गदर्शनैरिव ‘कटाक्षोऽपाङ्गदर्शने' इत्यमरः । पुष्पैः कुसुमैर्हर्षादानन्दातिरेकान्न वर्षति वृष्टि न करोति । उद्यानभूमिः पुष्पैराच्छादितेति भावः । अधुनाऽस्मिन्समये दोलासु प्रेङ्खासु आरूढा उपविष्टाः पुरन्ध्रयो युवतयस्तासा पीनं स्थूलं जघनं स्त्रीकटव्याः पुरोभागः ‘पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । तस्य प्राग्भारो विस्तारस्तमाधुन्वतः कम्पयतो लङ्कानिलस्य दक्षिणपवनस्य मानिनीनां मानरूपस्य दुमस्य वृक्षस्य भञ्जनाय पातनाय विनाशायेत्यर्थः । कि गहन कि कठिनं, न दुष्करमित्यर्थः । सम्प्रत्यनायासेनैव मानिनीनां मानभङ्गो भवतीति भावः । शार्दूलविक्रीडितच्छन्दः । TNT नई जवानी में प्रेम रखने वाले वसन्त के कारण, रंग विरंगी विचित्र शोभा को प्राप्त, कौन सी उद्यान की भूमि हर्षपूर्वक, कटाक्ष के समान फूलों की वृष्टि नहीं करती है अर्थात् सर्वत्र पुष्पवृष्टि हो रही है। ऐसे समय में हिंडोलों पर झूलती हुई कामिनिओं के तने हुए विस्तृत जघनस्थल को कंपाने वाले दक्षिण पवन के लिये मान रूपी वृक्ष को तोड़ कर गिरा देना अर्थात् नष्ट कर देना क्या मुश्किल है ? अर्थात् वसन्त ऋतु में रंग बिरंगी फूलों को देखने से, झूला झूलने से जघनस्थल में कैंप कैंपी पैदा होने से और दक्षिणानिल के स्पर्श से, मानिनियों का मान अनायास ही छूट जाता है। पौलस्त्योद्यानलीलाविष्टपितलमिलन्मैथिलीपादमुद्राः