पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/473

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षिणदिशात आगता मरुतो मलयानिलाः श्रमेण दूरदेशागमनपरिश्रमेण क्वचिदपि कुत्राऽपि क्षणमीषत्कालपर्यन्तमपि न विश्राम्यन्ति विश्रान्ति न काडक्षन्ति । अलिनां भ्रमराणां कृते कौसुमाः पौष्पाः पांसुकूटा धूलिसमूहाः प्रतिकलं प्रतिक्षणं क्रीडाशैलीभवन्ति लीलापर्वतीभवन्ति लीलापर्वत इवाऽऽचरन्तीति भावः । अभूततदभावे च्विः । तत्तस्मात् कारणात् पुष्पाण्येव कुसुमान्येवाऽस्त्राणि शरा यस्य स पुष्पबाणः कामस्तस्य मित्रं सखा तस्मिन् चैत्रे वसन्ते विद्यमाने सतीहाऽस्मिन् जगति विरहिणां वियोगावस्थापनानां स्त्रीपुंसां जीवितस्य जीवनस्याऽऽशा कीदृशी किमिति । न जीवनाशेति भावः । अर्थापत्तिरलङ्कारः । स्रग्धरावृत्तम् । “म्रभ्नैर्याना त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् । ST वासन्ती लताओं में मकरन्द, भौंरियों के लीलागत कुल्ला करने के योग्य तयार हो गया है। दक्षिण दिशा से बहने वाले मलयानिल, थकावट से कहीं भी विश्राम नहीं लेते हैं अर्थात् लगातार बहते ही रहते हैं। भौरों के लिये पुष्पधूलि के ढेर प्रतिक्षण क्रीडापर्वत का काम करते हैं। इसलिये कामदेव के मित्र वसन्त के आने पर वियोगियों के जीते रहने की आशा कैसी ? अर्थात् ऐसे समय में वियोगियों का जीते रहना सम्भव नहीं है। पुष्पैभ्रांजिष्णुभस्त्राकरणिमगणितैः शाखिनः के न याता sy श्चञ्चक्षिखिशलेखामयमिव भुवर्न भृङ्गमालाभिरास्ते । त्रैलोक्याकाण्डचण्डप्रहरणनिबिडोत्साहकएडूलदोष्णः पुष्पेशोजैत्रशस्त्रव्यतिकरविधये साधु सञ्जो वसन्तः ॥६८॥ अन्वयः