पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/468

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नt HI संवत भ६ डु६ स्त्र्यः ।। ६* ६ ।।५। * ।। * શુખ્ય દુ સમજ્ઞI ! e बन्दिकृतं वसन्तवर्णेनमारभते कविः--- मानग्रन्थिकदर्थनाय कथिताः सर्वत्र पुंस्कोकिलाः केलीकर्मणि दाक्षिणात्यमरुतामध्यक्षभावोऽर्पितः। पुष्पाख्रस्य जगत्त्रयेऽपि विरहप्रत्यूहहेवाकिनः संनद्धोऽयमसाध्यसाधनविधौ साम्राज्यमन्त्री मधुः ॥६३॥ হুমানতঃ सर्वत्र मानग्रन्थिकदर्थनाय पुंस्कोकिलाः कथिताः । केलीकर्मणि दाक्षिणात्यमरुताम् अध्यक्षभावः अर्पितः । जगत्त्रये अपि विरहप्रत्यूहहैवाकिनः पुष्पास्त्रस्य साम्राज्यमन्त्री अयं मधुः असाध्यसाधनविधौ संनद्धः । (अस्ति) । व्याख्या (वसन्तेन) सर्वत्र सर्वस्थानेषु मानः कोप एव ग्रन्थिस्तस्य कदर्थनाय भञ्जनाय विनाशायेत्यर्थः । पुंस्कोकिलाः पिकाः कथिता आज्ञप्ताः । केलीकर्मणि कामक्रीडाविलासे रत्यादिष्वित्यर्थ: । दाक्षिणात्यभरुतां मलयपवनानामध्यक्षभाव अाधिपत्यमपितो दत्तः । जगतां भुवनानां ‘विष्टपं भुवनं जगत्' इत्यमरः । श्रयं तस्मिन् त्रिलोक्यामपि विरहे वियोगसमये प्रत्यूहा विघ्नाः ‘विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः । क्लेशोत्पादका उपद्रवा इत्यर्थ: । तेषां हेवाक' उत्कटेच्छाऽस्त्यस्येति तस्य प्रियविरहसमये पीडोत्पादनकामस्य पुष्पास्त्रस्य कामस्य साम्राज्यस्य सार्वभौमराज्यस्य मन्त्री धीसचिवः ‘मन्त्री धीसचिवोऽमात्यः इत्यमरः । अयं प्रसिद्धी मधुर्वसन्तोऽसाध्यानामसभ्भवानां विरहिदुःखानां साधनमुत्पादनं तस्य