पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/467

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा वसन्त ऋतु में वसन्त की शोभा से पीड़ित, और पति विरह से जर्जरित, सुन्दर गझीन पखौनियों वाली नारियों के इस प्रकार के आश्चर्य कारक उक्तियों के विलास बार २ होते थे। अर्थात् विरह के कारण पीड़ित हो, स्त्रियाँ इस प्रकार के अनेक विचित्र उद्गार बार २ निकालती थीं। गम्भीरता चादुपराङ्मुखत्वं सौभाग्यमन्यप्रमदारदाङ्कः । दोषोऽपि यूनां गुण एव मेने पुरन्ध्रिभिर्मानपराङ्मुखीभिः ॥६२॥ श्रव्यः मानपराङ्मुखीभिः पुरन्ध्रिभिः यूनां गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यं अन्यप्रमदारदाङ्कः दोषः अपि गुणः एव मेने । व्याख्या माने दर्षे पराङमुख्यो वसन्तर्नुकारणेनौत्सुक्यादुदासीनास्ताभिर्मानरहिताभिः पुरन्ध्रिभिरङ्गनाभिर्यूनां युवजनानां गम्भीरता धैर्यं चाञ्चल्याभाव इत्यर्थः ॥ चाटुपराङमुखत्वमनुनयानुरूपप्रेमवार्ताप्रचाररहितत्वं 'अस्त्री चाटुचटुश्लाघा प्रेम्णा मिथ्या विकत्थनम्' इत्यमरः ॥ सौभाग्यं सुन्दरभाग्यशालित्वं स्श्रीसमागमाप्तीच्छायां क्लेशराहित्यमित्यर्थः । अन्यासां प्रमदानां स्त्रीणां प्रदानां दशनानामङ्कश्चिन्हं ‘कलङ्काङ्कौ लाच्छनञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः ॥ इति दोषोऽपि गुण एव मेने तत्र दोषत्वबुद्धिरेव न जातेतिभावः । वसन्ततुकृतात्युग्रकामवेदनया यूनां सकलदोषान् विस्मृत्य ताः कामपरवशाञ्जाता इत्यर्थः ॥ यूनां दोषा अपि तासां कृते तस्मिन्काले कामोद्दीपका जाता इति भावः। भाषा