पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/466

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत् दृष्टदोषः अपि त्वं स्मरेण पुनः संगृहीतः तत्र हेतुं श्रृणु । अङ्गी कृतस्रीवधपातकेन केन अपि एष भारः न स्वीकृतः । व्याख्या यत् यतो दृष्टः परिज्ञातो दोषो मित्रसाहाय्यकारित्वाभावरूपो दुर्गुणो यस्य स विज्ञातदुर्गुणोऽपि त्वं वसन्तः, स्मरेण कामेन पुनर्मुहुः संगहीतोऽङ्गीकृतस्तत्र तस्मिन्विषये हेतुं कारणं शृणु समाकर्णय । अङ्गीकृतमुररीकृतं स्त्रीणां नारीणां वधरूपं पातक पापं येन स तेन स्वीकृतनारीहननरूपपापेन केनाऽपि केनाऽपि व्यक्तिविशेषेण एष स्त्रीवधरूपो भारः कार्य न स्वीकृतो नोररीकृतः । भाषा कामदेव ने, मित्र की सहायता न करने के दोष से युक्त भी तुमको फिर से क्यों अपने साथ रख लिया, इसका कारण सुनो । स्त्रीवध का पाप स्वीकार करने वाले, तुम्हारे सिवाय किसी ने भी इस बोझ को उठाना अर्थात् इस कार्य को करना स्वीकार नहीं किया । अर्थात् स्त्रीवध का पाप किसी के स्वीकार न करने से, तुम जैसे दोषी को भी उसने अपना लिया । इत्थ वियोगज्वरजर्जराणा-मुद्वेजितानां मधुमासलक्ष्म्या। अासन्मुहुः पक्ष्मललोचनानां चैत्रे विचित्रोक्तिविचेष्टितानि ॥६१॥ अन्वयः चैत्रे मधुमासलक्ष्म्या उद्वेजितानां वियोगज्वरजर्जराणां पक्ष्मललोचनानाम् इत्र्थ विचित्रोक्तिविचेष्टतानि मुहुः आसन् ।

  • व्याख्य