पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/465

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा क्षत्रियधर्म से विमुख तुम, शिव के साथ भये हुए युद्ध में कामदेव को छोड़कर भाग गये थे । हे नीच चैत्र ! इस समय, इस स्थान पर भग्न शरीर कामदेव के सन्मुख हाय ! कैसे उपस्थित हो सके हो । अर्थात् घोर संकट में कामदेव का साथ छोड़कर भाग जाने वाले तुम, इस समय यहाँ कामदेव के सन्मुख कैसे उपस्थित होकर निर्लज्जता प्रकट कर रहे हो। इंहैव सङ्गः फलवान्बभूव त्वया महापातकिना पिकानाम् । यदर्धदग्धोल्मुककरमलेन देहेन लोकस्य बहिश्चरन्ति ॥५६॥ अन्वयः महापातकिना त्वया पिकान सङ्गः इह एव फलवान् बभूख । यत् (ते) अर्धदग्धोल्मुककश्मलेन देहेन लोकस्य बहि: चरन्ति। व्याख्य महापातक्रिनाऽत्युप्रपापिना त्वया वसन्तेन पिकानां कोकिलानां सङ्गस्सहवास इहैवाऽस्मिन्नेव जन्मनि फलवान् फलसंयुक्तो बभूव जातः । ‘अत्युग्रपुण्यपापानामिहैव फलमश्नुते' इति वचनात् । यद्यस्मात्कारणात् ते पिका अर्धं दग्धं ज्वलितमुल्मुकमलातम् ‘अङ्गारोऽलातमुल्मुकम्' इत्यमरः । तद्वत्कश्मलेन कृष्णवर्णेन देहेन शरीरेण लोकस्य जनस्थानस्य जनसमुदायस्य वा बहिर्बाह्यदेशे वने इत्यर्थ: । चरन्ति भ्रमन्ति । महापातकिना वसन्तेन सह पिकानां संसर्गाल तेषामपि पापसम्बन्धात्कृष्णवर्णत्वं लोकाद्वहिनिष्कासनञ्च जातमिति भावः । w AB