पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/462

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या चित्रीकृतमलङकृतं विभिन्नवर्णनवीनपुष्पादिनेति भावः । काननं वनं ‘अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः ॥ येन स तेन चैत्रेण वसन्तमासेनेत्यर्थः । समप्र्यमाणं दीयमानमद्भुतं विचित्रं कौसुमं पौष्पमस्त्रं बाणो यस्मै स ज्यां मौर्वीमधिगतमधिज्यं धनुर्यस्य सः समारोपितचापोऽपि भगवान् पूज्योऽनङ्गः कामो निषङ्गभारे तूणीरभारग्रहणे पराडामुखो निरभिलाषोऽभूत् । चैत्रेण कानने महान्पुष्परूपबाणराशिरेकत्रीकृतो दत्तश्च कामाय येन बाणसंरक्षणाय तूणीरधारणस्याऽऽवश्यकतैव न जातेति भावः । भाषा जंगलों को रंगबिरंगी फूलों से सुशोभित करने वाले चैत्र से, आश्चर्यजनक फूलों के बाणों को पाकर, धनुष चढ़ाकर रखने वाले भी भगवान् कामदेव, तरकस धारण करने में विमुख रहे। अर्थात् सदैव चैत्र द्वारा पुष्पवाण दिये जाने के कारण धनुष चढ़ाए रहने पर भी तरकस में बाण रखकर उसे पीठ पर लटका रखने की आवश्यकता भगवान् कामदेव को न पड़ी। श्रृङ्गारिणीमार्जितदन्तपंक्ति-कान्त्येव निर्यन्त्रणमुच्छलन्त्या। प्रक्षाल्यमानस्य शनैरवापु-रनिन्द्यमिन्दोः किरणाः प्रसादम् ॥५५॥ अन्वयः निर्यन्त्रणम् उच्छलन्त्या श्रृङ्गारिणीमार्जितदन्तकान्त्या प्रक्षाल्यमानस्य इव इन्दोः किरणाः शनैः अनिन्द्यं प्रसादम् अवापुः । व्याख्य TATLuuuLL LLLLAATALLSHAHJHuHuHiuuuTqL LHHuuHuHGGL HLSAHAAtTtTTttiuHSASAHALLTiuA LE