पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/460

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवस्याऽनुसारोऽनुसरणं तेनाऽमुकस्थानतः शब्दः समायातीत्यनुमानेन तेषां बन्धनाय कण्ठपाशाः कण्ठरज्जव इव क्षिप्ता मुक्ताः । पिकस्वराणां पीडादायकत्वेन पिकानां बन्धनार्थ विरहिणीभिः कर्णभूषणचंक्रमणव्याजात्पाशाः क्षिप्ता · इवेति भावः । अत्रापन्हुतिरलङ्कारः ॥ भाषा वियोगिनिओं ने कोकिल के शब्दों को सुन कर मार्मिक वेदना के आधिक्य से मस्तकों को सतत हिलाने से ऊपर गोलाकार रूप में हिलने वाले कर्णभूषणों के मिष से मानों कोयल के शब्दों का अनुसरण कर उनके गलों को बांध कर उनका प्राणान्त करने वाले पाशों को छोड़ा । उदञ्चयन्किशुकपुष्पस्रुचीः सलीलमाधूतलताकशाग्रः । वियोगिनां निग्रहणाय सञ्जः कामाज्ञया दक्षिणमारुतोऽभूत् ॥५२॥ अन्वयः किंशुकपुष्पसूचीः उदञ्चयन् सलीलम् अप्राधूतलताकशाग्रः दक्षिणमारुतः कामाज्ञया वियोगिनां निग्रहणाय सज्जः अभूत् । व्याख्या किंशुकपुष्पाणि पलाशकुसुमान्येव सूचय स्ताः ( कर्म) किंशुकपुष्पसूची रुदञ्चयन्नुन्नयन् लीलया विलासेन सहितं सलीलं यथास्यात्तथा अधूतं कम्पितं लतैव कशा तस्या अग्रं येन स दक्षिणमारुतो मलयपवनः कामस्य मकरध्वजस्याऽऽज्ञयाऽनुशासनेन वियोगिन्यश्च वियोगिनश्चेति वियोगिनस्तेषां वियोगिनां ‘पुमान्।स्त्रियेत्येकशेषः' । निग्रहणाय शासनाय सज्ज उद्मतः संन्नद्धोऽभूत् । यथा शकटस्थबलीवर्दप्रेरणाय सूचीकशयोः प्रयोगः क्रियते तथैव कामाज्ञया कामिजन