पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/459

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उन्निद्रपङतिस्थितचम्पकानि केलिवनान्तराणि कवलीकृतानां वियोगिनीनां सुवर्णकाञ्चीभिः श्रञ्चितानि इव चकाशिरे । व्याख्या उद्गता दूरीभूता निद्रा संकोचो येषा तान्युन्निद्राणि विकसितानि पंक्तीषु श्रेणीषु स्थितानि विद्यमानानि चम्पकानि चम्पककुसुमानि येषु तानि केलिवनाना क्रीडोद्यानानामन्तराणिमध्यभागाःकवलीकृतानांचम्पकाविपुष्पसमृद्धिमता वसंन्तेन भक्षितानां हतानामित्यर्थः । वियोगिनीनां विरहिणीनां सुवर्णकाञ्चीभिः काञ्चनरशनाभिरञ्चितानि तत्समानपीतवर्णत्वात्समन्वितानीव चकाशिरे विदिद्युतिरे । वसन्ते पतिविरहाइशमविरहावस्थां प्राप्तानां मूतानामित्यर्थः । वियोगिनीनां पीतवर्णत्वात्काञ्चनकाञ्चीरूपाणीव चम्पकपुष्पाणि शुशुभिर इति भावः । उत्प्रेक्षालंकारः ॥ भाषा फूले हुए और कतार में लगे पीले चम्पे के फूलों से युक्त क्रीडा कानन के मध्यस्थल, वसन्त ऋतु के कारण पति वियोग से दशम विरहावस्था को प्राप्त अर्थात् मृत वियोगिनियों की मानों सोने की पीली करधनियों के रूप से शोभित हो रहे थे। मर्मव्यथाविस्मयघूर्णमान-मूधोंच्छलत्कुण्डलविभ्रमेण । शब्दानुसारेण वियोगिनीभिः क्षिप्ताः पिकानामिव कण्ठपाशाः ॥५१॥ अन्वयः वियोगिनीभिः मर्मव्यथाविस्मयघूर्णमानमूर्घोच्छलत्कुण्डलविभ्रमेण पिकानां शब्दानुसारेण कण्ठपाशा: क्षिताः ।