पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/456

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विरेफः चूतदुममञ्जरीषु चचार । नानाकलिकामुखानि चुचुम्ब। स्त्रीराज्यमध्यस्थः इव एवम् एव क्षणं स्थातुं न लेभे । व्याख्य द्विरेफो भ्रमरः ‘द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ॥ चूतद्रुमाणां सहकारपादपानां ‘अाम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः ॥ · मञ्जर्यः वल्लर्यस्तासु ‘वल्लरिर्मञ्जरिः स्त्रियौ' इत्यमरः । चचार विहरति स्म। नानाकलिकानां विभिन्नपुष्पकोरकाणां मुखानि वदनान्यग्रभागानित्यर्थः । चुचुम्बाऽऽस्वादयत् । स्त्रीणां नारीणां राज्यं तस्य मध्ये तिष्ठतीति स्त्रीराज्यमध्यस्थ इव कामिनीराज्यान्तर्गत इवैवमेव कर्मरहितः क्षणमीषत्कालपर्यन्तमपि स्थातुं मनश्चाञ्चल्यं विहाय धैर्यणावस्थानुं न लेभे न प्राप। स्त्रीसम्हान्तर्गतो नरो मनसः स्थिरत्वं विधातुं न शक्नोति । ध्रुवमेव कामाभिभूतस्सम् ताभिस्सह रमते तथैव भ्रमरोऽपि ॥ इत्यप्रकृतव्यवहारसमारोपात्समासोक्तिरलङ्कारः ॥ भाषा भ्रमर आम की बौरों पर चक्कर काटने लगा । विभिन्न फूलों की कलियों के मुखों का चुम्बन करने लगा अर्थात् अग्रभाग का आस्वादन लेने लगा । स्त्रियों के राज्य में अर्थात् मध्य में रहने वाले के समान वह बिना कुछ व्यापार किए एक क्षण भी स्थिर न रह सका। अर्थात् सदैव मञ्जरी व कलिका रूपी कामिनियों के साथ रहने से कामाभिभूत होकर एक क्षण भी स्थिर चित से न रह सका। विलासिनामादिगुरुखलोक्या-मन्योन्यलीलाधुजयन्धनेषु उतम्भिताशोकपालाशपाणिर्न चैत्रमझः प्रतिमझमाप ॥४७॥