कोकिलपञ्चमस्वरस्य यत्कामोद्दीपनात्मक कार्य तद्वियोगिनीकण्ठगतपञ्चमस्वरनिनादेनैव सम्पादितम् । परन्तु प्रसिद्धिवशात् पुराकृतपुण्यैः कोकिलपञ्चमस्वरस्यैव तद्विषये यशो जातम् ।
भाषा
विरहजन्य पीडा जनित असामथ्र्य से विरहिणियों के गलों में से जो विलास से भरा सुन्दर पञ्चम स्वर निकलता है वही कामदेव के सब कामोद्दीपक कायों को करता है। किन्तु प्रसिद्धि के कारण उसका यश, पुरातन सुकृतों से, कोयल के पञ्चम स्वर को प्राप्त हआ है।
|
पदातिसंवर्गीणकारणेन पदे पदे चम्पकराशिभज्ञया ॥ |
अन्वय:
पदे पदे चम्पकराशिभज्ञया स्मरपार्थिवस्य पदातिसंवर्गणकारणेन वसन्तसामन्तविकीर्यमाणं हेम इव रेजे ।
व्याख्या
पदे पदे स्थाने स्थाने ‘पदं व्यवसितत्राणस्थानलक्ष्माङघ्रिवस्तुषु' इत्यमरः । चम्पकाराशिभड्रया चम्पकपुष्पसमूहव्याजेन स्मरः काम एव पाथिवस्तस्य कामनृपतेः पदातीनां कामसैनिकानां संवर्गणमावर्जनमाकर्षणमित्यर्थः । तस्य कारणेन वसन्त एव सामन्तस्सहायकनृपस्तेन मन्त्रिणेत्यर्थः । विकीर्यमाणं पुरस्काररूपेण दीयमानं हेमेव सुवर्णमिव रेजे शुशुभे । सापह्नवोत्प्रेक्षालङ्कारः ॥