पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/454

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वसन्तमित्रं वायुः मनस्विनीनां मनसः अवतीर्य वेगेन पलायितस्य मानस्य जीवग्रहाय इव ककुभां मुखानि बधाम । व्याख्य वसन्तस्य वसन्ततॉमित्रं सुहृद्वायुर्दक्षिणानिलः प्रशस्तं मनो यासां ता मनस्विन्यस्तासां मनस्विनीनां मानिनीनां मनसो हृदयादवतीर्य निष्क्रम्य वेगेन जवेन पलायितस्य प्रधावतो गच्छत इत्यर्थः । मानस्याऽहङ्कारस्य जीवस्य प्राणानां ग्रहाय ग्रहणाय इव प्राणवधार्थमिवेत्यर्थः । ककुभां दिशां ‘दिशस्तु ककुभः काष्ठा अाशाश्च हरितश्चताः' इत्यमरः । मुखानि मण्डलानि बभ्राम चचारान्वेष्टुं गतवानित्यर्थः । दक्षिणानिलेन मानवतीनां मानो दूरीभवतीति भावः । उत्प्रेक्षालङ्कारः । भाषा वसन्तऋतु का मित्र दक्षिणानिल, मानवती स्त्रियों के मन में से निकल कर वेग से भाग चलने वाले मान का प्राणान्त करने के लिये मानों उसकी खोज में सब दिशाओं में घूमने (बहने) लगा। अर्थात् दक्षिणानिल के लगते ही मानवती का मान एक दम दूर हो जाता है। वियोगिनीनामवशाल्लुलोठ कण्ठेषु लीलाकलपञ्चमो यः । तेनैव चक्रे मदनस्य कार्यं पुण्यैर्याशोऽभूत्पिकपञ्चमस्य ॥४४॥ अन्वयः अवशात् वियोगिनीनां कण्ठेषु यः लीलाकलपञ्चमः लुलोठ तेन एव मदनस्य कार्यं चक्रे । पुण्यैः पिकपञ्चमस्य यशः अभूत् ।