पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/449

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा पृथ्वी रूपी पटिया पर भ्रमरियों के पावों की पंक्तियों से अङ्कित। कुसुमरज, धीरे २ वर्णमाला सीखने का उत्सव मनाने वाले वसंत ऋतु की अक्षरमाला से मानों अंकित हो, ऐसी शोभित होती थी । अर्थात् वसंतऋतु में पृथ्वीपर बहुत पुष्परज गिरने से और उनपर भ्रमरियों के चलने से बनी लकीरों से कवि उत्प्रेक्षा करता है कि बालक बसन्त ने मानों अक्षर सीखते समय पृथ्वी रूपी पटिया पर टेढ़ी मेढ़ी लकीरें खींची हों। समारुरोहोपरि पादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे । लताप्रस्वनांशुकमाचकर्षे क्रीडन्वनैः किं न चकार चैत्रः ॥३७॥ अन्वयः चैत्रः पादपानाम् उपरि समारुरोह, पुष्पोत्कररेणुपुञ्जे लुलोठ, लताप्रसूनांशुकम् आचकर्ष, वनै: क्रीडन किं न चकार। =আবর্জ্জতা चैत्रो वसन्तमासः पादैर्मूलैः पिबन्तीति पादपास्तेषां पादपानां वृक्षाणामुपर्यूर्ध्वं समारुरोह वृक्षान्समाच्छादितवानित्यर्थ: । पुष्पणां कुसुमानामुत्करास्समूहास्तेषां रेणवो धूलयः ‘रेणुर्द्वयोः स्त्रियां पुंसि पांसुर्वा न द्वयो रजः' इत्यमरः । तेषां पुन्जे समूहे लुलोठ पपात । लतानां वीरुधां प्रसूनान्येव पुष्पाण्येवांऽशुकं श्लक्ष्णत्वान्मूदुत्वाच्चाम्बरमाचकर्ष बलाद्गृहीतवान् ॥ इत्थं वनैर्वनस्थैर्वस्तुभिः क्रीड़न् विहरन् कि न चकार कि न कृतवान् । कर्तव्याकर्तव्यविवेक परिहाय बालवत् यथेच्छं सर्वमेव चैत्रेणाऽनुष्ठितमिति भावः । यथा कश्चित् बालको वृक्षारोहणं धूलिविलुण्ठनं, अंशुकाकर्षणञ्च करोति तथा बालो मधुः कृतवानिति भावः । ਕ ਧਧਕਿਜਲ: