पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/448

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनश्रीर्वनलक्ष्मीर्वनशोभेत्यर्थः । अनुवेलं प्रतिक्षणं सुगन्धिनिःश्वासमिव सुन्दरगन्धयुक्तमुखनिःश्वासमिवोद्वेल्लता विस्तारयता दक्षिणमारुतेन मलयानिलेन मुग्धस्य बालस्य मधोर्वसन्तस्य तदनिर्वचनीयं प्रसूनान्येव पुष्पाण्येव शुभ्रत्वेन स्मितानीषद्धास्यानि तैर्दन्तुरं दन्तुरितं मनोहरमितिभावः । मुखमाननमग्रभागञ्च चुचुम्ब परिचुम्बितवती । बसन्ततैी पुष्पोद्गमेन वनशोभाऽऽविरासीदिति भावः । समासोक्तिरलङ्कारः । TT वनकी शोभा ने सुगन्धित सांस के समान सुगन्धयुक्त दक्षिणानिल के बहते रहने से बालरूप बसन्त ऋतु के, उस अवर्णनीय श्वेत फूल रूपी मुस्कराहट से युक्त मनोहर मुख को या अग्रभाग को चूमा । अर्थात् वसन्तऋतु में फूलों से बन की शोभा प्रकट होती थी । संक्रान्तभृङ्गीपदयक्तिमुद्र पौष्पं रजः क्माफलके रराज। क्रमाल्लिपिज्ञानकृतक्षणस्य क्षुण्णं मधोरक्षरमालयेव ॥३६॥ अयं क्ष्माफलके संक्रान्तभृङ्गीपदपङ्क्तमुद्रं पौष्पं रजः क्रमात् लिपिज्ञानकृतक्षणस्य मधोः अक्षरमालया इव क्षुण्णं रराज । व्याख्य क्षमाफलके पृथ्वीतलपट्टिकायां संक्रान्ताः संलग्ना भृङ्गीणां भ्रमरीणां पदानि चरणास्तेषां पङक्तयः श्रेणयस्तासां मुद्राश्चिह्नानि, यस्मिस्तत् पुष्पस्येदं पौष्पं कुसुमसम्बन्धी ‘तस्येदमित्यण्' । रजो धूलिः क्रमात् क्रमशो लिपिज्ञानेऽक्षर