पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/447

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जाने की सूचना पाकर तालाव से प्रकट हुआ। अर्थात् हमन्त और शिशिर ऋतुओं में कमल नहीं उत्पन्न होते और भ्रमर भी गुब्जार नहीं करते। नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन । उत्सङ्गसङ्गी विपिनस्थलीन बालो वसन्तः किमपि व्यराजन् ।३४। अव्य: विपिनस्थलीनाम् उत्सङ्गसङ्गी वसन्तः बालः नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मलनिर्गमेन किमपि व्यराजत्। व्याख्या विपिनस्थलीनामरण्यभूमीनां 'अष्टव्यरण्यं विपिनं गहनं कानन वनम्' इत्यमरः । विपिनस्थल्याः स्त्रीत्वेन जननीत्वं व्यङ्गत्यम् । उत्सङ्गेऽङ्के मध्ये वा सङ्गत इत्युत्सङ्गसङ्गी 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । अङ्कवर्ती वसन्तो बालः कुमारो नवीनः प्रत्यग्रो दन्तोद्गमो दशनोत्पत्तिस्तद्वत्सुन्दरो मनोहरस्तेन वासन्तिका माधवीलता ‘वासन्ती माधवीलता' इत्यमरः । तस्याः कुड्मलानि कलिकास्तासा निर्गम उत्पत्तिस्तेन किमप्यनिर्वचनीयं यथा स्यात्तथा व्यराजत् शुशुभे । वसन्ते बालत्वारोपाद्वासन्तीकलिकासु दशनत्वारोपात्, विपिनस्थलीनां धात्रीत्वारोपस्य व्यङ्गयत्वाच्च एकदेशविवतिरूपकम् ॥ भाषा जंगल की भूमियों की गोद में रहने वाला वसन्त रूपी बालक, नये दांत निकलने के समान सुन्दर माधवीलता की कलियों के निकलने से एक अवर्णनीय

  • M. l. – NA -