पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/439

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या युवानस्तरुणजना दोलासु प्रेडखिासु पादौ चरणौ प्रसार्य विस्तार्य विहिता कृता स्थितिः समुपवेशनं याभिस्तास्तासामासीनानां लोलाश्चञ्चलाः स्वनियतस्थानात्परिच्युता अंशुकाः पल्लवा इवेत्यंशुकपल्लवा मसूणाम्बराणि यासां तास्तासां सुदृशां सुनयनानामङ्गनानां यत् गुह्यं स्थानं गोपनीयाङ्गं जघनादि मनोरथानामपि कल्पनानामपि न गम्यं न प्राप्यं तद्द्रष्टुमवलोकयितुमापुः प्राप्तवन्तः । दोलनजनितवायुवेगेन तासां मसृणाम्बरेषु स्थानभ्रष्टेषु सत्सु युवानस्तासां कल्पनायामप्यप्राप्यं जघनादिगोपनीयाङ्गं ददृशुरिति भावः । भाषा युवक लोगों ने, पांव लम्बा कर झूलों पर बैठी हुई, हवा के झोके से स्थानच्युत मुलायम साड़ी वालीं सुनयनी अङ्गनाओं के, कल्पना में भी न आने वाले जघनादि गोपनीय अङ्गों की देखा। उत्रम्य दूरं मुहुरानमन्त्यः कान्ताः श्रुथीभूतनितम्बजाङयाः । दोलाविलासेन जितश्रमत्वात् प्रकर्षमापुः पुरुषायितेषु ॥२३॥ अन्वयः दूरम् उन्नम्य मुहुः आनमन्त्यः श्रुथीभूतनितम्बजाङयाः कान्ताः दोलाविलासेन जितश्रमत्वात् पुरुषायितेषु प्रकर्षम् आपुः । ठयाख्या दूर विप्रकृष्टदेशमुनम्योध्र्व समुत्थाय मुहुर्यारम्वारमानमन्त्योऽधोदेश प्राप्नुवन्त्य उत्थाय पुनरुपविशन्त्यः श्लथीभूतं शिथिलीभूतं निरस्तमित्यर्थः । नितम्बस्य कटिपश्चाद्भागस्य जाड्यं क्रियाशीलत्वशून्यत्वं यासां ताः कान्ता अङ्गना दोलायाः