|
दालासु यद्दालनमङ्गनाना यन्(या)मांल्लका यच्(श्च)'च लवङ्गवायुः । |
अन्वयः
अङ्गनानां दोलासु यत् दोलनं, यत् लवङ्गवायुः यत् च मल्लिका, सा विश्वसंमोहनदीक्षितस्य कुसुमायुधस्य मुख्याङ्गसम्पत् (अस्ति ।)
व्याख्या
अङ्गनानां सुन्दरीणां दोलासु प्रेडाखासु यद्दोलनमधस्तादुपरि चंक्रमणं यच्चात्र यदिति क्रियाविशेषणं यथेत्यर्थः । " लवङ्गवायुर्देवकुसुमसम्पर्कजन्यसुगन्धवाही पवनः ‘लवङ्गं देवकुसुमम्' इत्यमरः । यदत्राऽपि पूर्ववत् । मल्लिका पुष्पविशेषः 'बेला' इति भाषायाम् । सा विश्वस्य सम्पूर्णसंसारप्राणिनां संमोहनं कार्मणकर्म वशीकरणमित्यर्थः । तस्मिन् दीक्षितस्य सन्नद्धस्य कुसुमायुधस्य कामस्य मुख्याङ्गानां प्रधानसाधनाना सम्पत्सम्पत्तिरस्ति । आँदोलन मल्लिकापुष्प-लवङ्गवायव एव कामस्याऽखिललोकवशीकरणे प्रधानसाधनानीत्यर्थः ।
भाषा
ललनाओं का हिंडोलों पर झूलना, बेले के फूल और देवपुष्प, ये सब विश्व का वशीकरण करने में तत्पर कामदेव की प्रधान साधन सम्पति है।
|
प्रसार्य पादौ विहितस्थितीनां दोलासु लोलांशुकपलवानाम्। |
* अत्र यत् यत् इत्यस्य स्थाने या मल्लिका, यश्च लवङ्वायः. इत्येव पाठः