सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/436

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



व्याख्या

 विलासवत्योऽङ्गना दोलायाः प्रेङ्खाया विनोदेन क्रीडया सुदूरमत्यूर्ध्वदेशमारूह्य गत्वा निवर्तमाना पुनरधोदेशं प्रति निवृत्ताः सत्यो नभ एवाऽऽकाशमेव प्राङ्गणं विस्तृतस्थानं तस्मिन्सङ्गिन्यः प्राप्तास्तासां त्रिदशाङ्गनानां देवाङ्गनानामाकाशे संचरणशीलानामप्सरसां वाऽर्धं विलासं विभ्रमं सारूप्यमित्यर्थः । आपुः प्राप्तवत्यः । अङ्गनानां रूपलावण्यातिशयाद्देवाङ्गनासादृसश्यम् । दोलाया आकाशे चाऽल्पकालवृत्तित्वादर्धमेवाऽप्सरसां विलासं शोभां वा प्रापुरित्यर्थः । अत्र निदर्शनालङ्कारः ॥

भाषा

 अङ्गनाओं के हिंडोले की क्रीडा में बहुत ऊँचे जाकर फिर नीचे लौट आने से, वे, आकाशरूपी आंगन में विहार करने वाली अप्सराओं के आधे सारूप्य को प्राप्त हुई। अर्थात् कामिनियाँ झूला झूलते हुए आधे समय तक खूब ऊँचे और आधे समय तक नीचे रहने से ऊँचे रहने के आधे समय के लिये साक्षात् आकाश में विहार करने वाली अप्सराओं की शोभा प्राप्त करती थीं।

विलासदोलाफलके नितम्ब—विस्ताररुद्धे परितस्तरुण्याः ।
लब्धः परं कुञ्चितकार्मुकेण तत्रावकाशः कुसुमायुधेन ॥१&॥

अन्वय:

 विलासदोलाफलके परितः तरुण्याः नितम्बविस्ताररुद्धे (सति) तत्र परं कुञ्चितकार्मुकेण कुसुमायुधेन अवकाशः लब्धः ।

व्याख्या

 विलासस्य क्रीडाया दोलाफलकं दारुमयान्दोलनफलकं 'तख्ता' इति