पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/434

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिह्नं लक्षणं ‘कलङ्काङ्कौ लाच्छनञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । यतो वसन्त एव दोलारोहणक्रीडा विशेषतो भवतीति भावः । सुष्ठु दृशौ नयने यासा तास्तासा सुन्दरनयनाङ्गनानां दोलासु प्रेङ्गासु विलासः क्रीडा रराज शुशुभे । विशेषविनोदकारित्वेन चैत्रमासभवस्य वसन्तर्तुसकलचिह्नस्याऽभेदारोपो दोलाविलासेऽतोऽत्र मालारूपकम् । भष कामदेव की विमान रचना, श्रृंङ्गार रस रूपी राजा के महलों की कतार, चैत्र मास का सब ऋतुओं में श्रेष्ठ वसन्तऋतु का चिह्न अथवा वसन्त का अन्य सब ऋतुओं से विशिष्ट चिह्न, सुनयनी स्त्रियों की झूला झूलने की क्रीडा शोभित होने लगी । अर्थात् चैत्र मास या वसन्त ऋतु के आते ही सुन्दर नेत्रवाली कामिनियों में झूला झूलने का उमङ्ग, कामदेव की प्रेरणा से काम सम्बन्धि दूर 2 की उनकी मानसिक उडानें तथा श्रृंङ्गार रस का साम्राज्य चारोतरफ छा गया । दोजाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु । त्रुटिर्येदालम्बगुणेषु नाभूत् सा भाग्यशक्तिः कुसुमायुधस्य ॥१६॥ ਦ: यत् दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु आलम्बगुणेषु त्रुटिः न अभूत् सा कुसुमायुधस्य भाग्यशक्तिः । व्याख्या यदित्यनेन वाक्यार्थपरामर्शः । दोला प्रेङ्खनँ 'दोला प्रेङ्खादिका स्त्रियाम्