पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/433

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

শুক্ৰedখ ; भ्रमत्सौरभमांसलेन मलयानिलेन निमीलितानां भूमिगृहस्थितानों प्रियकाङ्गिणीनाम् इति प्रलापमाला चिरम अभूत्। व्याख्या भ्रमन्नितस्ततः प्रसरन् यस्सौरभस्सुगन्धस्तेन मांसलो बहुलस्तेन प्रसरत्सुगन्धबहुलेन मलयानिलेन दक्षिणपवनेन निमीलितानां व्यथितानां भूमौ पृथिव्यामधस्तात् गृहाणि सदनानि, ग्रीष्मातपनिवारणाय भूम्यभ्यन्तरे निमितानि शीतभवनानि तेषु स्थिता विद्यमानास्तासां प्रियाणां प्रेमास्पदजनानां पतीनामित्यर्थः । काङिक्षण्योऽभिलाषिण्यस्तासां ललनानां धियोगिनीनामित्यर्थः । इति पूर्वोक्तप्रकाराः प्रलापमाला निरर्थकवाक्यकदम्बः ‘विप्रलापो विरुद्धोक्तिः प्रलापोऽनर्थकतं वचः' इत्यमरः । चिरं बहुकालपर्यन्तमभूज्जाताः । RTST चारों ओर फैलने वाली सुगन्ध से भरे दक्षिण वायु से पीड़ित, तल घर में (तहखाने में) रहने वाली, अपने प्रिय की अभिलाषा रखने वाली वियोगिनी स्त्रियों के पूर्वोक्त प्रकार के निरर्थक वाक्यसमूह चिरकाल तक चलते रहे। इति षट्क्ष्ठोकात्मको कुलकम् । कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य । चैत्रस्य सर्वर्तुविशेषचिन्हं दोलालिसासः सुदृशां रराज ॥१५॥ अन्वयः कन्दर्पदेवस्य विमानसृष्टिः, रसपार्थिवस्य प्रासादमाला चैत्रस्य सर्वर्तुविशेषचिन्ह सहशां दोलाविलासः. रराज ।