सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/431

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यः यत् वा एतत् दैन्यं मृषा तिष्ठतु । किराताः मरुता वैरं न इच्छन्ति । हि सः शबराङ्गनानां केलिप्रसङ्गे स्मरग्लानिम् अपाकरोति । व्याख्य यड्रेति पक्षान्तरे एतद्देन्यं मलयानिलस्य 'प्रियविप्रलम्भव्यथोद्धलकत्वात्तस्माद्भयेन मृगमारणप्रार्थनं मृषा मिथ्या निरर्थकमेवेत्यर्थः । तिष्ठत्वाऽऽस्ताम् । किराताः शबरा मरुता मलयवायुना सह वैरं शत्रुतां नेच्छन्ति नाऽऽकाङक्षन्ति । हि यस्मात् कारणात् ‘हि हेतावधारणे' इत्यमरः । स दक्षिणानिलः शबराणां वनेचराणां ‘भेदाः किरातशबरपुलिन्दम्लेच्छजातयः' इत्यमरः । अङ्गना ललनास्तासा केलिप्रसङ्गे सुरतक्रीडाकाले स्मरग्लानि कामोद्वेगजन्यक्रीडोत्पन्नशारीरिकश्रमपाकरोति दुरीकरोति। श्रमापनयनेनोपकारित्वादयं दक्षिणानिलो शत्रुभावं न जनयतीति तस्य मृगविनाशाभ्यर्थना वृथैवेति भावः । भाषा अथवा किरातराज से वायु के वाहन रूप मृग को मारने की अभ्यर्थना व्यर्थ है। किरात लोग दक्षिणानिल से वैर करना नहीं चाहते। क्योंकि वह दक्षिणानिल किरातिनियों की सुरत क्रीडा में सुरत जनित श्रम का अपहरण करता रहता है। अर्थात् दक्षिणानिल उपकारी होने से उस से किरातराज का शत्रुभाव हो ही नहीं सकता । दुराग्रहश्वन्दनमारुतस्य सदा यदन्यर्तुष्पराङ्मुखोऽयम् । अनेन चैत्रः सुतरामसह्यश्चन्द्रोदयेनेव शरत्प्रदोषः ॥१२॥ अन्वयः