पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/426

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इसी बीच में कामदेव का लंगोटिया साथी, लता रूपी स्त्रियों को विभिन्न विलासों का उपदेश देने बाला, नाट्याचार्य; कोयल के पत्र्चम स्वर के शुद्ध उच्चारण के लिये कण्ठ तालु आदि स्थानों की शिक्षा देने वाला सङ्गीताचार्य; श्रृङ्गार रस को उद्दीप्त करने वाला; वसन्त ऋतु आ गया । शीतर्तुभोत्या विविशुः समस्ताः किं कन्दरासीमनि चन्दनाद्रेः । यन्निःसरन्ति स्म हिमव्यपाये दिवा च रात्रौ च ततः समीराः ॥४॥ श्रयः समस्ताः समीराः किं चन्दनाद्रेः कन्दरासीमनि शीतर्तुभीत्या विविशुः यत् हिमव्यपाये (ते) दिवा च रात्रौ च ततः निःसरन्ति स्म । व्याख्या समस्तास्सकलास्समीरा वायवः कि चन्दनाद्वेर्मलयपर्वतस्य कन्दरासीमनि दरीमध्ये 'दरी तु कन्दरो वाऽस्त्री' इत्यमरः । शीतत्तुंभीत्या शिशिरर्तुभयेन विविशुः प्रविष्टाः । यद्यस्मात्कारणात् हिमस्य शिशिरतॉव्र्यपाये समाप्तौ ते पवना दिवा दिने च रात्रौ च निशायाञ्च ‘निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । ततश्चन्दनाद्रेनिःसरन्ति स्म निर्गच्छन्ति स्म । कन्दरासु प्रवेशे शीतप्र्तुभीतेहॅतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । TeT सम्पूर्ण वायु क्या शिशिर ऋतु के (थण्डे के) भय से मलयाचल की कन्दराओं में छिप कर बैठे थे ? क्योंकि शिशिर ऋतु के (जाड़े के) बीतते ही वे वायु रात दिन मलयाचल से निकलते ही चले आ रहे थे।