पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/427

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्य गन्धवाहा अनिलाः ‘गन्धवाहानिलाशुगाः' इत्यमरः । पवनो वायुरप्शन भोजन येषां ते तेषां वायुभक्षकाणां पन्नगानामुरगाणां 'उरगः पन्नगो भोगी जिह्मगः पवनाशनः' इत्यमरः । निवासस्य स्थितेर्दानं तस्मात् कृतः प्रदशतः प्रकोपः क्रोधो यैस्तेऽमर्षयुक्तास्सन्त इवाऽस्मद्भक्षका एवाऽत्र निवसन्ति ततोऽत्राऽस्मन्निवासी न युक्त इति हेतोः कुपिताः सन्त इवेत्यर्थः । चन्दनशैलस्य मलयाचलस्य कुञ्जान्निकुञ्जात् 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । उदीचीमुत्तरामाशां दिशं प्रति विनिर्ययुर्निर्जग्मुः । मधौ दक्षिणानिलो वहतीतिप्रसिद्धिः । पवने स्वभक्षकसर्पनिवासहेतुककोपकक्र्तृत्वस्य मलयाचलपरित्यागे हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । s वायुगण, वायुभक्षक सपों को, मलयाचल द्वारा आश्रय दिये जाने से मानों कुद्ध होकर मलय पर्वत के कुञ्ज से उत्तर दिशा की ओर भाग चले । अर्थात् दक्षिणानिल उत्तर दिशा की ओर बहने लगा । रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥६॥ अन्वयः रविः रथस्थितान्र्ां पुरातनानां वाहनानां परिवर्तनाय इव तुरगोत्तमनाम् उत्पतिभूमी उत्तरस्यां दिशि प्रतस्थे। व्याख्या