पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/424

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महाकवि श्री बिल्हण-विरचित 'विक्रमाङ्कदेवचरितम् सप्तमः सर्गः स सर्वमावज्र्य रिपुप्रमाथी मनोरथानामथ पूरणेन । परिभ्रमन्युद्धकुतूहलेन दिग्दन्तिशेषाः ककुभश्चकार ॥१॥ श्रान्वयः अथ रिपुप्रमाथी सः मनोरथानां पूरणेन सर्वम् अावज्र्यं युद्धकुतूहलेन परिभ्रमन् (सन्) ककुभः दिग्दन्तिशेषाः चकार । व्याख्य अथ विक्रमाडूदेवस्य राज्याभिषेकानन्तरं रिपूणां शत्रूणां प्रमाथी मर्दकः स fवक्रमाडूदेवो मनोरथानामभिलाषाणां पूरणेन सफलीकरणेन सर्व जनसमूहमावज्र्य वशीकृत्य युद्धस्य समरस्य कुतूहलमुत्कण्ठा तेन परिभ्रमन् परितो विचरन् ककुभो इशः ‘दिशस्तु ककुभः काष्ठा अाशाश्च हरितश्च ताः' । दिशां दन्तिनो दिग्दन्तिनो दिग्गजा एव शेषा अवशिष्टा यासु ताश्चकार सम्पादितवान् । सकलज्नाहरणाद्दिग्गजा एवाऽवशिष्टा अासन्निति भावः । सर्गोऽस्मिन्निन्द्रवज्त्राच्छन्दः “स्यादिन्द्रवज्रा यदितौ जगौगः' इति लक्षणात् । TVT ( विक्रमाङ्कदेव के ) राज्याभिषेक के अनन्तर, शत्रु का मर्दन करने वाले