पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/422

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुक्त, और चिरकाल तक अच्छे स्वामी (राजा) को प्राप्त करने की चिन्ता में डूबी हुई चालुक्य वंशीय राजाओं की राज्यलक्ष्मी के मनोमालिन्य को दूर कर देनेवाले, राज्याभिषेक की प्राप्त किया । झति पञ्चभिः श्लोकैः कुलकम् । श्रीचालुक्यनरेन्द्रखनुरनुज तत्रैव पुण्ये दिने कारुण्यातिशयादसृत्रयदसौ पात्रं महत्याः श्रियः । दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियं तेषामाश्रितपोषणाय गहन किं नाम पृथ्वीभुजाम् ।।९९॥ अन्वयः असौ श्रीचाळुक्यनरेन्द्रसूनुः तत्र पुण्ये दिने एव कारुण्यातिशयात् अमनुजं महत्याः श्रियः पात्रम् श्रसूत्रयत् । यद्भवनेषु विक्रमधनक्रीता इयं श्री* दासी ननु, तेषा पृथ्वीभुजाम् आश्रितपोषणाय किं नाम गहनम् Cञ्चास्ति) । व्याख्या असौ श्रिया विराजितस्य चालुक्यनरेन्द्रस्याऽऽहवमल्लदेवस्य सूनुः पुत्रो त्रित्रक्रमाङ्कदेवस्तत्र तस्मिन् पुण्ये पावने सुन्दरे वा ‘पुण्यं तु चार्वपि' इत्यमरः । व्हिने राज्याभिषेकदिवस एव कारुण्यस्य। दयाया अतिशय आधिक्यं तस्मादत्यधिकदयालुत्वादनुज स्वकनिष्ठभ्रातरं सिंहदेवं महत्या विशालायाः श्रियो लक्ष्म्याः पात्र्यां भाजनमसूत्रयत् कृतवान् । तस्मै वनवासिमण्डलाधीश्वरं चकारेति भावः ॥ येघई राज्ञां भवनेषु सदनेषु विक्रमधनेन पराक्रमरूपद्रव्येण क्रीता, मूल्येन स्वायती