युक्त, और चिरकाल तक अच्छे स्वामी (राजा) को प्राप्त करने की चिन्ता में डूबी हुई चालुक्य वंशीय राजाओं की राज्यलक्ष्मी के मनोमालिन्य को दूर कर देनेवाले, राज्याभिषेक की प्राप्त किया ।
झति पञ्चभिः श्लोकैः कुलकम् ।
श्रीचालुक्यनरेन्द्रखनुरनुजं तत्रैव पुण्ये दिने
कारुएयातिशयादसृत्रयदसौ पात्रं महत्याः श्रियः ।
दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियं
तेषामाश्रितपोषणाय गहनं किं नाम पृथ्वीभुजाम् ।।९९॥
अन्वयः
असौ श्रीचालुक्यनरेन्द्रसूनुः तत्र पुण्ये दिने एव कारुण्यातिशयात् अमनुजं महत्याः श्रियः पात्रम् श्रसूत्रयत् । यद्भवनेषु विक्रमधनक्रीता इयं श्री* दासी ननु, तेषा पृथ्वीभुजाम् आश्रितपोषणाय किं नाम गहनम् (अस्ति) ।
व्याख्या
असौ श्रिया विराजितस्य चालुक्यनरेन्द्रस्याऽऽहवमल्लदेवस्य सूनुः पुत्रो त्रित्रक्रमाङ्कदेवस्तत्र तस्मिन् पुण्ये पावने सुन्दरे वा ‘पुण्यं तु चार्वपि' इत्यमरः । व्हिने राज्याभिषेकदिवस एव कारुण्यस्य। दयाया अतिशय आधिक्यं तस्मादत्यधिकदयालुत्वादनुजं स्वकनिष्ठभ्रातरं सिंहदेवं महत्या विशालायाः श्रियो लक्ष्म्याः पात्रं भाजनमसूत्रयत् कृतवान् । तस्मै वनवासिमण्डलाधीश्वरं चकारेति भावः ॥ येषां राज्ञां भवनेषु सदनेषु विक्रमधनेन पराक्रमरूपद्रव्येण क्रीता, मूल्येन स्वायत्ती