सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/420

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आतावशदतया दिशा मुखषु स्मितामिव कतकमित्रभुद्वहत्सु ।
निखिलभुवनमानसेषु हर्ष-प्रसरवशेन नितान्तमुत्सुकेषु ॥९६॥

अन्वयः

 दिशां मुखेषु अतिविशदतया केतकमित्रं स्मितम् उद्वहत्सु (सत्सु) इव निखिलभुवनमानसेषु हर्षप्रसरवशेन नितान्तम् उत्सुकेषु (सत्सु ) (विक्रमादित्यदेवोऽभिषेकमलभतेत्यन्वयः । )

व्याख्या

 दिशां ककुभां ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । मुखेष्वाननेष्वग्रभागेषु वाऽतिविशदतयाऽतिनैर्मल्येन केतक्याः पुष्पं केतकं तस्य मित्रं शुक्लत्वात्केतकीपुष्पसदृशं स्मितमीषद्धास्यमृद्वहत्सु धारयत्सु सत्स्विव, दिक्षु नैर्मल्यं प्राप्तास्वित्यर्थः । निखिलभुवनानां सकललोकस्थितजनानां मानसानि मनांसि तेषु सकललोकगतजनमनःसु हर्षस्याऽऽनन्दस्य प्रसरो विस्तारस्तस्य वशेन कारणेन नितान्तमत्यन्तमुत्सुकेषु समुत्कण्ठितेषु सत्सु ( विक्रमादित्यदेवोऽभिषेकमलभतेति । )

भाषा

 दिशाओं के अत्यन्त निर्मल होने से मानों श्वेत केवड़े के फूलों के समान उनके मुस्कराते रहने पर और समस्त लोकों के मनुष्यों के मनों में आनन्द का संचार होने के कारण उनके उत्कण्ठित हो उठने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ । )