पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/419

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘राजहंसास्तु ते चञ्चुचरणैर्लोहितैस्सिता' इत्यमरः । तेषां भङ्गया व्याजेन सरसीरुहेषु कमलेषु पङ्केरुहँ तामरसं सारसं सरसीरुहम् इत्यमरः ।। शङ्गान् कम्बून् पूरयत्सु सत्सु ध्वनयत्सु सत्स्विव, सरति नद्यां प्रतिफलितो जले प्रतिबिम्बितोऽर्कः सूर्यस्तस्य मिषेण व्याजेन घटिकया समयसूचकघटीयन्त्रेण लग्नवेलामभिषेकस्य शुभमुहूर्त शोधयन्त्यामिव विचारयन्त्यां सत्यामिव (विक्रमादित्यदेवोऽभिषेकमलभतेत्यनेन सम्बन्धः ।) सापन्हवृोत्प्रेक्षालङ्कारः । भाषा कमलों के मुख पर या अग्रभागों में प्रेमपूर्वक बैठे हुए राजहंसों के मिष से मानों कमलों के शंखों की बजाते रहने पर और नदी के जल में प्रतिबिम्बित सूर्य बिम्ब के मिष से मानों नदी के, घटिका देखकर शुभमुहूर्त का विचार करते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।) अतिशिशिरतया मरुत्सु भक्तया कुलसरितामिव वारिधारयत्सु । नभसि विकरतीव गाङ्गमम्भः पवनसमाहृतशीकरच्छलेन ॥&५॥ अन्वयः मरुत्सु अतिशिशिरतया भक्त्या कुलसरिता वारि धारयत्सु (सत्सु) इव, नभसि पवनसमाहृतशीकरच्छलेन गाङ्गम् अम्भः विकरति (सति) इव (विक्रमादित्यदेवोऽभिषेकमलभतेत्यन्वयः) व्याख्या मरुत्सु वायुष्वतिशिशिरतयाऽतिशैत्येन भक्त्या पूज्यत्वप्रयुक्तानुरागेण कुल सरितां गङ्गादिपवित्रनदीनां वारि जल धारयत्सु वहत्सु सत्स्विव, नभस्याकाशे पवनेन वायुना समाहृताः समानीताः शीकरा अम्बुकणाः ‘शीकरोऽम्बुकणाः स्मृताः'