पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/418

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वितरितुमिदमग्रजस्य सर्व पुनरुपजातमतिः स राजपुत्रः । तुहिनकिरणखण्डमण्डनेन स्फुरदशरीरगिरा रुषा न्यषेधि ॥३३॥ अक्वाय: अग्रजस्य इदं सर्वं पुनः वितरितुम् उपजातमतिः सः राजपुत्रः तुहिन'किरणखण्डमण्डनेन रुषा स्फुरदशरीरगिरा न्यषेधि । व्याख्या अग्रजस्य ज्येष्टभ्रात्रे सोमदेवाय ‘अग्रजस्येत्यत्र सम्बन्धसामान्ये षष्ठी । इदं सर्व राज्यादिकं पुनविंतरितुं समर्पमितुमुपजाता समुत्पन्ना मतिर्बुद्विर्यस्य स उपजातमतिः स राजपुत्रो नृपसुतो विक्रमाङ्कदेवस्तुहिनकिरणः शीतमयूखश्चन्द्रो मण्डनं शिरोभूषणं यस्य स तेन शङ्करेण रुषा क्रोधेन स्फुरन्ती प्रकटिताऽशरीरा देहरहिता गीर्वाणी 'गीर्वाग्वाणी सरस्वती' इत्यमरः । तयाऽऽकाशवाण्या त्यषेधि ` निवारितः । भष अपने बड़े भाई सोमदेव की उसका राज्य आदि फिर से लौटा देने की उत्पन्न भई हुई बुद्धि वाले विक्रमाङ्कदेव को चन्द्रमा के खण्ड को अपने मस्तक पर आभूषण के रूप में धारण करने वाले भगवान् शंकर ने क्रोधपूर्वक आकाशवाणी द्वारा मने किया । अथ विक्रमाङ्कदेवस्य राज्याभिषेकं कुलकेन वर्णयति कविः-- मुखपरिचिताराजहंसभज्ञत्यां सरसिरुट्रेष्ववपूरयत्सु शङ्खन् । -सरिति घटिकयेव शोधयन्त्यां प्रतिफलिताकमिषेण लग्नवेलाम् ॥&४॥