पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/416

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यमराज के खाने से बचे हुए मांस वाला और हजारों श्रृंगालियों के उपभोग के योग्य, एक बहुत बड़ा युद्ध हुआ । किमपरमुपरि प्रतापभाजा विहतपदः स बभञ्ज राजयुग्मम् । द्रविडपतिरगात्क्वचित्पलाय्य न्यविशत बन्धनधानि सोमदेवः ॥&०॥

किम अपरम् । प्रतापभाजाम् उपरि विहितपदः सः राजयुग्मं बभञ्ज। द्रविडपतिः पलायय क्वचित् गतः । सोमदेवः बन्धनधाम्नि न्यविशत । व्याख्या किमपरमन्यत्कि वक्तव्यम्। प्रताप प्रभावं भजन्ति सेवन्ते ते प्रतापभाजस्तेषां प्रभावशालिनामुपरि मस्तके विहितं स्थापितं पदं चरणं येन सः स्थापित चरणः स विक्रमाङ्कदेवो राज्ञोर्द्रविडपतिराजिगसोमदेवयोर्युग्मं युगलं बभञ्ज सम्मदिंतवान् । द्रविडपती राजिगः पलाय्य दृतगत्या क्वचिदज्ञातस्थानं गतो जगाम । सोमदेवो बन्धनस्य धाम स्थानं तस्मिन् कारागारे न्यविशत निविष्टवान्। भाषा अब और दूसरा क्या कहना है ? प्रतापियों के मस्तक पर चरण रखने वाले विक्रमाङ्कदेव ने राजिग और सोमदेव, इन दोनों राजाओं को कुचल डाला। द्रविड़ देश का राजा राजिग भागकर कहीं अज्ञात स्थान में चला गया । सोमदेव कैद खाने में बन्द हो गया । उभयनरपतिप्रतापलक्ष्म्यौ विलुलुठतुश्चरणद्वये तदीये । त्रिभवनमहनीयबाहुवीर्यादविणाविभतिमतां किमस्त्यसाध्यम ॥s१॥