पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/415

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ठयाख्य अमुष्याऽस्य विक्रमाडूदेवस्य शत्रूणामरीणां सेना चमूस्तस्यां ये भटा योधास्तेषां मुखान्याननान्येव पद्मानि कमलानि तेषां विमर्दश्चूर्णनमेव केलिः क्रीडा तदर्थं कालो यमो विनाशकारित्वात् ॥ ‘कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः । द्विरदपतिर्गजनाथो रण एव संग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्रं लक्ष्म्याः श्रियः करेण हस्तेन धृतं धारितं विभ्रमपुण्डरीकं विलाससिताम्भोजं ‘पुण्डरीकं सिताम्भोजम्' इत्यमरः ॥ एव शेषोऽवशिष्टांशो यस्य तच्चकार निष्पादितवान् । रूपकालङ्कारः । भाषा शत्रु सेना के योद्धाओं के मुख कमलों को चूर २ कर देने की क्रीड़ा में यमस्वरूप, विक्रमाड्रदेव के श्रेष्ठ हाथी ने रणरूपी तालाव को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया हो, ऐसा कर दिया। अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमलों को रणरूपी सरोवर में नष्ट कर दिया। घृतसुभटकरङ्कमङ्कवर्ति-द्विरदघटाविकटास्थिचक्रवालम् । रणमनणु कृतान्तभुक्तशेष-प्रणयेि बभूव शिवासहस्रभोग्यम् ॥८&॥ अन्वयः धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्तशेषप्रणयि शिवासहस्रभोग्यम् अनणु रणं बभूव । লতাবােজয়া धृता गृहीताः सुभटानां सुयोधानां करङ्का अस्थिपञ्जरा येन तत् । अङ्के