सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/414

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

છુણાશાનારાતવાહુપત્રામન્ના-ાલુ મુવનમામ સુગરૂવ રાગના प्रतिभटकरटिस्थिताः प्रवीराः प्रणतिपरा इव सम्मुखा निपेतुः ॥८७॥ अन्वयः त्रिभुवनभीमभुजस्य राजसूनोः कुलिशनिशितकङ्कपत्रभिन्नाः प्रतिभटकरटिस्थिताः प्रवीराः प्रणतिपराः इव सम्मुखाः निपेतुः । ठयोग्य त्रयाणां भुवनानां समाहारस्त्रिभुवनं लोकत्रयं तस्मिन् भीमो भयङ्करो ‘भयङ्करं प्रतिभयं घोरं भीमं भयानकम्' इत्यमरः । भुजो बाहुर्यस्य स तस्य राजसूनो राजपुत्रस्य विक्रमाङ्कदेवस्य कुलिशवद्वज्त्रवन्निशितं तीक्ष्णं कङ्कपत्रं बाणविशेषस्तेन भिन्ना विदारिता: प्रतिभटानां शत्रुपक्षीययोधानां करटिनो गजास्तेषु स्थिताः समारूढाः प्रवीराः प्रकृष्टवीराः प्रणतिपरा इव प्रणामप्रवणा इव प्रणमन्त इवेत्यर्थः । सम्मुखा अभिमुखाः पुरतो निपेतुर्भूमौ निपतितवन्तः ॥ गजोपरिस्थिताः प्रवीरा अस्य बाणैः क्षतास्तस्य पुरतो निपेतुरिति भावः । उत्प्रेक्षालङ्कारः । तीनों लोकों में भयङ्कर भुजावाले अर्थात् भुजशक्ति वाले उस राजकुमार विक्रमाङ्कदेव के वज्र के समान तीखे २ कङ्कपत्रों से घायल शत्रुपक्षीय योधाओं के हाथियों पर बैठे हुए प्रधान वीरगण मानों विक्रमाङ्कदेव की प्रणाम करते हुए उसके सामने (हाथियों पर से) गिरने लगे । द्विरदपतिरमुष्य शत्रुसेना-भटमुखपद्मविमर्देकेलिकालः । भटिति रणसरश्चकार लक्ष्मी-करधृतविभ्रमपुण्डरीकशेषम् ॥८८॥