पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/409

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ठयारख्या मदकरटी मदान्धगजो रुधिरेण शोणितेन भूतानि परिपूरितानि कपालानि शिरोऽस्थीनि तेषां पङक्तिः श्रेणी तस्या मध्ये विनिपत्य शस्त्रप्रहारेण भग्नस्सन्नधिः पतित्वाऽऽगतस्य गजार्थ समुपयातस्य मृत्योर्यमस्य पानपात्रे चषके प्रणयिनं स्थितमासवं मद्यं कर्णतालैः श्रोत्ररूपतालवृन्तैस्तज्जनितपवनैरित्यर्थः । शिशिरमिव शीतलमिव चकार कृतवान् । उत्प्रेक्षालङ्कारः । TIST कोई मदान्धहाथी खून से भरी गण्डस्थल की हड़ियों की कतार के बीच में, चोट खा जाने से गिरकर, उसकी लेने को आए हुए यमराज के कटोरों में के मद्य को मानों अपने कानरूपी ताड़ के पंखों से हवा कर ठण्डा कर रहा था । उपरि निपतितः कपालशुक्तः श्रवणपुटः करिणः कृपाणलूनः । समरभुवि कृतान्तपानलीलाचषकपिधानविलासमाससाद ॥८०॥ · अन्यः समरभुवि कपालशुक्तः उपरि निपतितः कृपाणलूनः करिणः श्रवणपुटः कृतान्तपानलीलाचषकपिधानविलासम् आससाद ! व्याख्या समरभुवि युद्धभूमौ कपालशुक्तेः शिरोऽस्थिरूपशुक्तेरुपरि निपतितः संप्राप्तः कृपाणेन खड्गेन लूनश्च्छिन्नः करिणो कस्यचिद्गजस्य श्रवणपुटः कर्णपुटः कृतान्तस्य यमस्य ‘कृतान्तो यमुनाभ्राता शमनो यमराड्यमः' इत्यमरः । पानस्य r X. P USA