पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/410

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रांतॆसुभटकपालपाठनाय द्विरदमुदञ्चयति स्म राजसूनुः ॥८१॥

तत्र अनियतविजयश्रियि इति महाहवप्रबन्धे चिरं प्रवृत्ते (सति) राजसूनुः प्रतिसुभट्टकपालपाटनाय द्विरदम् उदञ्चयति स्म ! বতাহত तत्र तस्मिन्नप्रनियताऽनिशिचता विजयस्य श्रीर्जयलक्ष्मीर्यस्मिन्स तस्मिन्नितीत्थं महाहवप्रबन्धे तुमुलसंग्रामे चिरं बहुकालपर्यन्तं प्रवृत्ते सञ्चलिते सति राजसूनुराहवमल्लदेवपुत्रो विक्रमाङ्कदेवः प्रतिसुभटाना विपक्षयोधाना कपालानि शिरसि। तेषां पाटनाय विदारणाय द्विरदं स्वगजमुदञ्चयतिस्म प्रवर्त्तयति स्म । भाषा उस अनिश्चित विजयश्री वाले, इस प्रकार घनघोर युद्ध के चिरकाल तक होते रहने पर राजपुत्र विक्रमाडूदेव ने विपक्षी योद्धाओं के मस्तकों को काटने के उद्देश्य से अपने हाथी को आगे बढ़ाया । दणमुदचलदुचलत्पताके द्रविडबले क्षणमग्रजस्य सैन्ये । रणभुवि स चचार यत्र यत्र न्यपिबदरातियशांसि तत्र तत्र ॥८२॥ अपचयः सः उच्चलत्पताके द्रविडबले क्षणम् उदचलत् । (उच्चलत्पताके) अप्रजस्य सैन्ये क्षणम् उदचलत् । (सः) यत्र यत्र रणभूवि चचार तत्र तत्र अरातियशांसि न्यपिबत् ।