पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/408

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

LL SLLLLLLLL LL LL SLLLLLLLL LLLLH LLLLSLLLL S LS LLLLLLLLSLLSLH S LS SLL S SLLLL L HH LLLL LLLL L LL SS BMLL LL अन्वयः कश्चित् उज्भिफतकङ्कटं प्रतिभटं विलोक्य विघटेितकवचः सन् चचार } विमलविजयलालसाः खलानाम् अल्पम् अपि अयसरं प्रतिक्षिपन्ति । व्याख्या कश्चित्सुभट उज्झितः परित्यक्तः कङ्कटः कवचो 'उरच्छदः कङ्कटको जनगरः कवचोऽस्त्रियम्' इत्यमरः । येन स तं प्रतिभटं विपक्षवीरं विलोक्य वृष्ट्वा, मल्लयुद्धाय सन्नद्धं त्यक्तकवचं प्रतिभटं विलोक्येत्यर्थः । विघटितः स्वशरीरात्पृथक् कृतः कवचो येन सः, प्रतिभटेन साकं मल्लयुद्धाय कवचं देहात्पृथक्कृत्य रणेऽवतीर्णस्सन्नित्यर्थः । चचार बभ्राम । विमला शुद्ध विजयस्य ल्लालसाऽतिप्रीतिर्योषां ते वीराः खलानां नीचानां निन्दकानामित्यर्थः । अल्पमपि क्षुद्रमप्यवसरं समय प्रतिक्षिपन्ति दूरीकुर्वन्ति । विमलविजयलालसास्तथा व्यवहरन्ति यथा खलाः स्वल्पमपि निन्दावसरं न प्राप्नुबन्तीतिभावः । भाषा कवच को उतार कर रख देने वाले और मल्लयुद्ध को तयार विपक्षी योद्धा को देखकर कोई वीर अपना कवच उतार कर मल्लयुद्ध के लिये तयार होकर टहलने लगा । विशुद्ध विजय से प्रेम रखने वाले वीर खलों को निन्दा करने का थोड़ा भी अवसर नहीं देते । रुधिरभूतकपालपडुक्तिमध्ये मदकरटी विनिपत्य कर्णतालैः । शिशिरमिव चकार पानपात्र-प्रणयिनमासवमागतस्य मृत्योः ॥७&।