पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/406

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नयनगतमरातिवीरचूडा-मणिदलनप्रभवं परागमेक: । करिदशनविदारितात्मवक्षः-स्थलरुधिराञ्जलिभिर्निराचकार ॥७५॥ अन्वयः एक: नयनगतम् अरातिवीरचूडामणिदलनप्रभवं परार्ग करिदशनविदारितात्मवक्षःस्थलरुधिराञ्जलिभिः निराचकार । =অবস্থায় एकः कश्चिद्भटो नयनयोर्नेत्रयोर्गतं प्राप्तमरातयः शत्रवो वीराश्शूरा इत्यरातिवीरास्तेषां चूड़ामणयोऽलङ्कारभूताः शिरोमणयस्तेषां दलनं चूर्णनमेव प्रभव उत्पत्तिस्थानं यस्य स तं परागं धूलि करिणां हस्तिनां दशनैर्दन्तैविदारितं भिन्नमात्मनस्स्वस्य वक्षःस्थलं तस्य रुधिरस्य शोणितस्याऽञ्जलयस्तैन्निराचकार दूरीकृतवान् । येन वीरेण कस्यचिद्भटस्य चूडामणिः खण्डितस्तस्य केनाऽपि करिणा वक्षः स्थलं विदारितमिति तुमुलं युद्धं समजनीति भावः । अतिशयोक्त्यलङ्कारः । भाषा किसी योद्धा ने अपने आंख में पड़ी, विपक्षी वीरों के शिरोमणियों को चूर २ कर देने से उत्पन्न धूलि की हाथी के दातों से चीरी हुई अपनी छाती से निकलने वाले खूनों की अंजुलियों से धो डाला। अर्थात् आंख में पड़ी धूल की पानी न होने से खून से ही धोकर सफा कर दिया तात्पर्य यह कि घोर संग्राम होने लगा । महति समरसङ्कटे भटोऽन्यः प्रतिभटनिर्दलनात्समाप्तशस्त्र श्रगणितमरणः प्रविश्य वेगादरिकरतः करवालमाचकर्षे ॥७६॥