पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/391

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमदेवसंन्यानां आसत कृष्ण वलसत चाष्टत स्वरूप वा यस्य स तन श्यामवणेंन निर्मलेन विशदेनाऽसयः खड्रा एव लतिका लतास्तासां निबहेन समूहेन हेतुना नवो नवीनो य इन्द्रनीलो मरकतमणिस्तस्य द्रुतीनां द्रवीभूतपदार्थानां शतानि तेषा निझीरान् वारिप्रवाहान् 'वारिप्रवाहो निझीरो झरः' इत्यमरः । धारयतीति नवेन्द्रनीलद्रुतिशतनिझीरधारिणीव नवीनमरकतमणिद्रवीभूतपदार्थशतप्रवाहधारिणीव रेजे शुशुभे । खड्गलतानिवहे कृष्णत्वसाम्यादिन्द्रनीलद्रवशतनिझीरत्वस्य सम्भावनादुत्प्रेक्षालङ्कार' । भाषा आकाशरूपी पर्वत का प्रान्तभाग, सोमदेव की सेना के कृष्णवर्ण निर्मल तलवार रूपी लताओं के समूह से मानों नये मरकत मणी (पन्ने) के पानी के सैकड़ों झरनों को धारण करता हआ शोभित होता था । क्व नु नविलसति स्म कुन्तमाला कलितशिखण्डिशिखण्डमण्डनश्रीः। क्षणमविरहिता विपक्षसेना-भटशिरसामिव मण्डलैस्तदीया।५२॥ अन्वयः कलितशिखण्डिशिखण्डमण्डनश्रीः तदीया कुन्तलमाला विपक्षसेनाभटशिरसां मण्डलै: क्षणम् अविरहिता इव क्व नु न विलसति स्म। व्याख्य कलिता धारिता शिखण्डिनां मयूराणां शिखण्ड: पिच्छमेव मण्डन भूषण, तस्य श्रीः शोभा यया सा तदीया सोमदेवसैन्यसम्बन्धिनी कुन्तमाला प्रासपडूि: ‘प्रासस्तु कुन्तः' इत्यमरः । विपक्षाणां शत्रूणां सेना सैन्यं तासां भटा योद्धारस्तेषां शिरांसि मूर्धानस्तेषां मण्डलैस्समूहैः क्षणमीषत्कालायाऽविरहितेव युक्तेव