पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/392

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहुभिः श्रद्भुतैः अभिहितैः किं वा । भयजननं भुवनैकमल्लसैन्यं रणरसचलितं विलोक्य केषां चेतसि विकल्पः अन्तरं न अलभत । व्याख्या बहुभिरने कैरद्भुतैराश्चार्यकारिभिरभिहितै: कथितैर्वर्णनैरित्यर्थः । कि वा किम्फलं न किमपीत्यर्थः । भयस्य त्रासस्य जननमुत्पत्तिर्यस्मात्तत भयोत्पादक भुवने जगत्येकोऽद्वितीयो मल्ली वीरस्सोमदेवस्तस्य सैन्यं बलं रणस्य युद्धस्य रसेनोत्साहेन चलित समापतन्तं विलोक्य दृष्ट्वा केषां नृपाणां चेतसि हृदये विकल्पः संशयोऽन्तरमवकाशं ‘अन्तरमवकाशावधिपरिधानान्तद्धिभेदतादथ्ये' इत्यमरः । नाऽलभत न प्राप ॥ राजानोऽपि तदबलं वीक्ष्य विजये ' संशययुक्ता अभूवन्निति भावः । भाषा बहुत सी आश्चर्य जनक बातें कहने से क्या लाभ ? भयजनक, जगत् के अद्वितीय वीर सोमदेव की सेना को, युद्ध के उत्साह से आई हुई देखकर किन राजाओं के हृदय में सन्देह को अवकाश नहीं मिलता था अर्थात् सभी राजा इसकी पलटन देखकर विजय के विपय में सन्दिग्ध हो जाते थे। द्रविडबलभरे क्रमादवासे निकटमुदारभुजस्य राजसूनोः । ग्रपि नृपतिरसी समीपमागादपकरणावसरं चिरादवाप्य ॥५४॥ श्रवयः द्रविडबलभरे उदारभुजस्य राजसूनोः क्रमात् निकटं अवाप्ते (सति) असौ न्रपतिः अपि अपकरणावसरं चिरात् अवाप्य समीपम् श्रागात् ।