सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/390

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



अन्वयः

अधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः अगणितकृत'पङ्क्तयः ते तदीयाः हयाः प्रतिदिशं कम् इव उपक्रमं न चक्रुः ।

व्याख्या

अधिरोहितास्स्वपृष्ठोपरि समुपवेशिता अश्ववाराः सादिनः ‘अश्वारोहास्तु सादिनः' इत्यमरः । यैस्ते परिचितानि गात्रेषु शोभार्थं निमितानि काञ्चनस्य सुवर्णस्य चित्राः विचित्राः वर्मबन्धाः कवचानि येषां तेऽगणिताः संख्यामतिक्रान्ताः कृता बद्धाः पङक्तयः श्रेणयो येषां ते तथोक्तास्से प्रसिद्धास्तदीयास्सोमदेवसम्बन्धिनो हया अश्वाः प्रतिदिशं दिशि दिशि कमिवोपक्रमं समुद्योगं न चक्रुः न ` विदधुः सर्वमेवोपक्रमं चक्रुरिति भावः । अनेन तेषामश्वानामतिसाहसकर्मकारित्वं सूचितम् ।

भाषा

घोड़सवारों को अपने पीठ पर बैठाए हुए, अपनी शोभा और रक्षा के लिये सोने के विचित्र कवचों की धारण करने वाले, असंख्य कतारें बनाए हुए उन प्रसिद्ध सोमदेव के घोड़ों ने प्रत्येक दिशा में कौनसा साहसयुक्त कार्य नहीं किया ।

इति पञ्चभिः कुलकम् ।

असितविलसितेन तद्बलानामसिलतिकानिवहेन निर्मलेन ।
गगनगिरितटी नवेन्द्रनील-द्रुतिशतनिझेरधारिणीव रेजे ।।

अन्वयः

{{center|प्रागनगिरितटी तढ़लानाम् असितविलसितेन निर्मलेन श्रसिलतिका-