पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/389

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

સહાત્ર માતા મલૂલા યત્ય તન સહન્ન માનુના સુયખ તષા મરવાના સવબSહત્વtन्निजवहनार्थ स्ववाहनकल्पनार्थमथिता अपेक्षिताः सन्तः स्वयं साक्षात्स्वयमेव तानधिरुह्याऽश्वोपरि समुपविश्य परीक्षितास्तीव्रतमा गतिरस्ति न वेति निरीक्षिता इवाऽऽसन् ।। सूर्याश्वतोऽपि तेषामश्वानां श्रेष्ठत्वमिति भावः । सापन्हवोत्प्रेक्षालङ्कारः । भाषा इन घोड़ों की रत्न जडित काठियों पर सूर्य के प्रतिबिम्ब पड़ने के मिष से (अपने धोड़ों से अच्छे समझ) सूर्य द्वारा अपना वाहन बनाने के लिये मांगे हुए इन घोड़ों पर मानों स्वयं सूर्य ने सवारी कर उनकी परीक्षा की हो। जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाथ पृथ्वी । नभसि खुरपुटेरिित स्फुरड्रिविधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ४९ ट्र वय: (हे) नाथ ! पृथ्वी जबसमुचितधावनानुरूपा पृथुला किमिति न कृता इति नभसि स्फुरद्भिः खुरपुटैः ये विधिं मुहुः प्रतिक्षिपन्ति स्म इव । ठयाख्या हे नाथ ! हे स्वामिन् ब्रह्मन्। पृथ्वी मेदिनी जवस्य वेगस्य समुचित योग्यं धावनं तीव्रगमनं तस्याऽनुरूपाऽनुकूला पृथुला विस्तृता महतीत्यर्थः ‘विशङ्कटं पृथुबृहद्विशालं पृथुलं महत्' इत्यमरः । किमिति कस्माद्धेतोर्न कृता न विहिता । इति हेतोरीदृशमनौचित्यं मनसि परिज्ञाय नभसि व्योम्नि स्फुरद्भिरितस्ततः समुच्छलद्भिः खुरपुटैः शफसंपुटैः येऽश्वा विधि ब्रह्माणं मुहुर्भूयः प्रतिक्षिपन्ति स्मेद समुपालभन्ते स्मेव । खे खुरपुटस्फुरणे ब्रह्मण उपालम्भस्याहार्यसंभावनाざで5項8HTやデミーTマ: 1