पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/388

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्त्रयः व्यजनचटुलवालधिप्रपञ्चप्रचुरसमीरणपुञ्जमध्यवर्ती मरुत् येषा त्वरितवामनलङ्घितः अपि श्रविभाव्यतया न लज्जते स्म । व्याख्या व्यञ्जनानि तालवृन्तानीव चदुलाश्चपला वालधयः पुच्छकेशपुञ्जाः ‘पुच्छोऽस्त्री लूमलांगूले वालहस्तश्च वालधिः' इत्यमरः । तेषां प्रपञ्चा विस्तारास्तेभ्यः प्रचुरा बहुलाः समीरणा वायवस्तेषां पुञ्जस्य समूहस्य मध्ये वर्तत इति व्यजनचदुलवालधिप्रपञ्चप्रचुर-समीरणपुञ्जमध्यवर्ती मरुद्वायुर्योषामश्वानां त्वरितगमनेन शीघ्रगतिविशेषेण लड्घितोऽप्यतिक्रिान्तोऽप्यविभाव्यतयाऽलक्ष्यतया न लज्जते स्म न त्रपते स्म । मरुद्गतिस्तु प्रसिद्धव ॥ परमश्वानां गतिस्तस्मादधिकेति लज्जास्थानम् । किन्तु मरुतो व्यञ्जनचटुलवालधिप्रपञ्चप्रचुरसमीरणपुज्जवर्तित्वादविभाव्यतया को मां पश्यतीति भावेन लज्जा न संजातेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा ताड़ के पंखों के समान चंचल पूंछों के हिलने से उत्पन्न अधिक हवाओं के समूह के मध्य में विद्यमान पवन, घोड़ों से तीव्रगति में पराजित होने पर भी अदृश्य होने से लज्जित न हुआ । अर्थात् घोड़ों से गति में हरा दिये जाने पर भी अन्य वायुओं के मध्य में रहने से मुझे कौन पहचान सकेगा इस भावना से मरुत् लज्जित न हुआ । प्रतिफलननिभात्सहस्रभासा मणिमयपल्ययनप्रतिष्ठितेन । མ་ཚང་མ་གསུམ་མ་ཚར་གང་ཡག་ཡག་ས་པ་ལ། ཐ་ན་སྐལ་དམན་པ་ Nà or-repre-rear vg.يندfییسیندن Papa A Y A