पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/383

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्यः असितातपत्रमैत्रीम अनुसरत् मधुकरमण्डलं येषाम् अतिविपुलकपोलदानपङ्कप्रभवसरोरुहिणीदलानुकारम् आससाद । व्याख्या असितस्य कृष्णवर्णस्याऽऽतपत्रस्य छत्रस्य मैत्रीं सावृश्यं तामनुसरत्संधारयन्मधुकराणां भ्रमराणां मण्डल समूही, येषां सोमदेव गजानामतिविपुलेष्वत्यन्तप्रशस्तेषु कपोलेषु गण्डस्थलेषु दानं मद एव पङ्कः कर्दमः स एव प्रभव उत्पत्तिस्थानं यासां तासां सरोरुहिणीनां कमलिनीनां दलानां पत्राणां ‘पत्र पलाश छदन दलं पर्णं छदः पुमान्' इत्यमरः । अनुकारं साम्यमाससाद भेजेऽनुप्रापेत्यर्थः ॥ भाषा काले रंग के छत्र के समान कृष्णवर्ण भौरों के समूह, सोमदेव के हाथियों के अति विशाल गण्डस्थलों पर के मद रूपी कीचड़ में उत्पन्न नीले रंग की कमलिनी के पत्तों की समानता प्राप्त कर रहे थे । अर्थात् नील कमलिनी के पत्तों के ऐसे शोभित होते थे । अगणितसृणिभिः प्रधावितैर्यैः कुलगिरयः परिघट्टितास्तटेषु । मुमुचुरिव मुखैरजस्रमस्रं विगलितधातुतरङ्गिणीमिषेण ॥४१॥ अन्यः अगणितसृणिभिः प्रधावितैः यैः तटेषु परिघट्टिताः कुलगिरयः मुखैः विगलितधातुतरङ्गिणीमिषेण अजस्रम् अस्त्रं मुमुचुः इव । নতয়াবহতা